________________
भट्टश्रीचक्रधरप्रणीतः [ का पृ०६१, वि०पृ०४९० ऐकान्तिकमात्यन्तिकमिति' । ऐकान्तिकमवश्यंभावात् आत्यन्तिकमपुनविनिवृत्तेः । अभयं जन्मादिभीतिशून्यम् ।
तं प्रति नष्टमप्यनष्टमिति । कृतार्थ सन्नष्टमप्यदर्शनीभूतमपि ।
बोद्धरि विज्ञातर्यध्यवसातरीति । पुनरुक्त्या बुद्धे नाख्यवृत्तियोगाद् बोद्धृत्वम् , अध्यवसायोत्पादकत्वाच्चाध्यवसा[तृत्वम् ] [24] .... .... .... घृतादीनां सम्भवः, घृतादिषु च पुष्टेघृताधुपयोगे हि पुष्टेः सम्भवात् । पुष्टौ च सत्यां रेतआदयः रेतसि च पुत्रादयः । तेषां च प्राप्तकाले मरणाच्छरीरस्य काथः, कथितस्य च कृमिभावेन परिणामः, तदेव च कथितम् । वृक्षायुर्वेदे वृक्षाणां वृद्धये श्रूयते-'तथा च सति वृक्षस्यापि तत्र सम्भवः, वृक्षाच्च फलम् , फलाद् रसः, रसाद् बलमिति सर्व क्षीरेऽस्ति, देशकालाकारापबन्धाद् न समानकालमभिव्यज्यन्ते' इति ।।
न ह्यसौ मृत्पिण्डादिविषयो भवितुमर्हति । यद्धि क्रियते तत्र कारकव्यापारः; न च मृत्पिण्डादि क्रियते, तस्य पूर्वकृतत्वादेवेति ।
___ रूपभेदादविरोधः। कारणरूपेण सत्त्वम् , स[स्व.]रूपेण त्वसत्त्वादिति । वस्तु नास्त्येव । सन्नसन्नप्यसत् , तत् किं वस्तु भवति ? अनुमानेनापि यदुपलब्धम् 'असदकरणात्' इत्यादिना [सां० का० ९] ।
चक्रमूर्धनि घटोऽस्तीति । चक्रमूर्धनि घटसम्पत्तये यदुपात्तो मृत्पिण्डस्तत्र ।
नासतो विद्यते भाव इत्यस्योत्तरमर्धम् ---"उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ॥" [भगवद्गीता, २.१६] इति ॥ असतः शशविषाणादेः करणं नास्ति, सतश्च विनाशो नास्ति, भूतपरिणाममात्रं केवलमित्युभयोः सदसतोः तत्त्वदर्शिभिरन्तः स्वरूपमवधृतमित्यर्थः । पूर्वापरान्तयोः प्रागभाव-प्रध्वंसाभावयोः ।
न च शक्तिरेव कार्यमिति । कारकाणां तत्रैव व्यापारः। कार्य तु सदेव शक्तौ कृतायामभिव्यज्यत इति ॥
१ सां०का. ६८ । २ ऐकान्तिकम् अवश्यम्भावि, आत्यन्तिकमविनाशीति । सां० तत्त्वकौ० ६८ । ३ वाचस्पतिसम्मतः 'उभयम्' इति पाठः । युक्तिदीपिकाकारसम्मतस्तु 'अभयम्' इति पाठः । “एतत्परं ब्रह्म ध्रुवममलमभयमत्र सर्वेषां गुणधर्माणां प्रतिप्रलयः ।' युक्तिदी. ६८ । ४ द्र० सां.का. ६६ । करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिर्यया विवेकख्यातिर्न कृता, कृतविवेकख्यातिस्तु शब्दाद्युपभोग न जनयति । अविवेकख्यातिनिबन्धनो हि तदुपभोगः । सां०तत्त्वकौ० ६६ । कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । योगसू. २. २२ । ५ 25 पत्रं नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org