________________
का०पृ०३९२, वि०पृ०४२६] न्यायमञ्जरीप्रन्थिमङ्गः इत्यनन्तरेऽपि 'वा' ग्रहणे 'तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् [पा०२.३.७२] इत्यत्र यद् विकल्पवाचि 'अन्यतरस्याम्'ग्रहणं तद् व्यवस्थितविभाषार्थम् तेन क्वचिद् द्वितीययाऽपि सह विकल्पः सिद्धो भवति तेन 'मातुरनुकरोति' इति सिद्धम् । कान्दिशीक इत्यत्रापि अभियुक्तैर्युत्पत्तिः कृतैव । सा च दर्शिता । प्रत्ययः विभक्त्यलुक् चापि प्राङ्नीत्या प्रकारविशेषाश्रयणेन समर्थयितव्यः । भ्राजिष्णुरित्यत्र तु 'भुवश्च' [पा० ३.२.१३८]इति 'च'शब्दस्यानुक्तसमुच्चयत्वाद् इष्णुप्रत्ययो वृत्तिकारेण दर्शितः'। [औ]णादिकग्नामपि गमि-गामि-भाविप्रभृतीनां यौगिकत्वदर्शनाद् 'वृञ एण्यः' [उणादि ३.३८५] इति एण्यप्रत्ययेन वरेण्यः । एवं गणेयशब्देऽपि णेरलोपः कयाऽपि भझ्या चीर्णमितिवत् समर्थ्यः। यत् पुनः स्मृतिविपर्ययाप(पा)दनं तदभिप्रायापरिज्ञानादेव । शब्दानां हि राशिनयेणानुशासनम् । छन्दोमूलप्रयोगदर्शनात्, छन्दोभाषाप्रयुक्तिदृष्टेः, भाषाप्रयोगावगमाच्च । न पुनर्विषयनियमस्तैस्तैः सूत्रैः क्रियते । अवश्यं चैतदेवं विज्ञेयम्, यदि पुनः परिपन्ध्यादयः शब्दाः छन्दोविष[184Aया एव स्युस्तदा पदपदार्थव्युत्पत्त्यभावादप्रतिपादकवलक्षणमप्रामाण्यं श्रुतेः प्रसज्येत । छन्दोग्रहणं तु तेषु तेषु सूत्रेषु तेषां परिपन्थ्यादीनां काव्यादिषु पञ्चसु प्रभेदेषु प्रयोगप्रतिषेधार्थः न सर्वत्र । स्मृतिसंदेहोऽपि न कश्चित् । त्वामनुकरोतीत्यत्रार्थदृशेस्तत्र प्रयोगात्; अनुकृतिलक्षणश्चार्थो धात्वर्थ एवेति नास्ति कश्चित् संदेहः । अप्रतिपादकत्वं च नास्ति, गत्यर्थादिसूत्रस्य प्रत्याख्यानानाश्रयणादिति ।
बार्हस्पत्यसूत्रमसूत्रमेव प्रमाणविरुद्धार्थसूचनादसूत्रपदतुल्यमित्यर्थः ।
तिमयो मत्स्यविशेषाः । [दुग्धधारेति] दुग्धधारावदमला मधुराश्च तथा सुधाबिन्दुनिष्यन्दिन्यस्तु याः । तत्कुतस्त्यमितरेतराश्रयमिति । सति वेदाङ्गत्वेन व्याकरणात् प्रमाणभूतादर्थनिश्चये वेदस्याप्रतिपादकत्वाभावात् प्रामाण्यम्, सति च तत्प्रामाण्ये तदङ्गत्वेन व्याकरणप्रामाण्यमिति यदितरेतराश्रयं त[184B]त् कुतस्त्यम् । भोगिमतश्रुतसङ्गिभिः । भोगी शेषः तन्मतं महाभाष्यं तच्छूतेन सङ्गशीला ये भर्तृहरिप्रभृतयः आर्याः इति भद्रम् ।
भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे षष्ठमाह्निकं समाप्तम् ॥ ॐ ।। जयत्येकशराघातविदारितपुरत्रयः ।
धनुर्धराणां धौरेयः पिनाकी भुवनत्रये ॥ [185] १ चकारोऽनुक्तसमुच्चयार्थः "भ्राजिष्णुना लोहितचन्दनेन" । काशिका३.२.१३८ । २ मुद्रितमजयां तु 'तत् परास्तमितरेतराश्रयम्' इति पाठः । ३ मुद्रितमञ्जयां तु 'भागिमतं श्रुत' इति पाठः । ४ एतच्छलोकपर्यन्तो भङ्गो जेसलमेरप्रतावस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org