________________
॥ सप्तमम् आह्निकम् ॥
॥ ॐ नमः शिवाय ॥
औपवर्षाः प्रपेदिरे। औपवर्षा' मीमांसकाः । नोत्तरस्य यदुत्तरकालमिदमनुसन्धानज्ञानं तदुत्तरम् । न द्वयोर्द्वयमप्यस्तीति। पूर्वस्योत्तरज्ञानम् उत्तरस्य च पूर्वज्ञानम् ।
__ तदभेदोपचारेणेति । आत्मोपकारकत्वाच्छरीरमात्मवाचिना पदेन निर्दिश्यत इति ।
द्रव्यादिरूपे ग्राह्ये नेति । ततश्च घटादिवत् 'इदम्'निर्देश्यः स्याद् ग्राह्यांशः पृथगेव, पुनरप्यात्मनो ज्ञातुर्न ग्राह्यत्वम् ।
विषयोवावि(योपाधि)कृत इति । विषयलक्षणो य उपाधिः तत्कृतः । अस्मत्प्रयोगसम्भेदाच्चेति । तदुक्तम्
अस्मत्प्रयोगसंभिन्ना ज्ञानस्यैव च कर्तरि । भवन्ती तत्र संवित्तियुज्येताप्यात्मकर्तृका ॥इति॥ [श्लो० वा० शून्यवाद ७०]
अस्मदो यः प्रयोगोऽहमिति तेन संभिन्ना तदनुप्रवेशवती । घट[मात्र]प्रवणैव, न घटज्ञातृताविशिष्टात्मविषया । ज्ञानविशिष्टघटावमर्श इति । यमहं जानामि स घट इत्येवं ज्ञानविशिष्टघटावमर्शः ।
त्वयोन्नेतुमुपक्रान्तः, त्वया उम्बेकेने पूर्वैरनुन्नीतोऽपि । विशेषनिष्ठं ग्राह्यग्रहीतृनिष्ठम् । विज्ञानवादवर्मेति । [1] अनेनैव दृष्टान्तेन विज्ञानवादस्यावतारणात् । एकमेव ज्ञानं ग्राह्यं ग्रहीता च ज्ञातृत्वाद् आत्मवदिति । ज्ञानसामानाधिकरण्यानुपपत्तेरिति । यदाऽहं जानामीत्येवं प्रत्यय उत्पद्यते तदा मिथ्यैवायं प्रत्ययः । न ह्यहमिति प्रतिभासमानस्य शरीरस्य जानामीति सम्बन्ध उपपद्यत इत्यर्थः ।
१ उपवर्षों मीमांसासूत्रवृत्तिकारः पाणिनिगुरोर्वर्षल्यानुजः इति प्रसिद्धिः । २ कथञ्चिद्धर्मरूपेण भिन्नत्वात् प्रत्ययस्य तत् । ग्राहकत्वं भवेत् तत्र ग्राह्य द्रव्यादि चात्मनः ॥६८॥ श्लोक वा० शून्य० । बोधरूपतया तस्य ग्राहकत्वं द्रव्यरूपतया तस्य प्राह्यत्वमित्यर्थः । उम्बेकटीका। ३ मुद्रितमञ्जयां तु ग्रन्थिरय नास्ति । ४ मुद्रितमअयों तु 'त्वनयोनेंतुमुपक्रान्तः' इति पाठः। ५ भवत्यात्मसम्बन्धिनी ज्ञातृतैव ग्राह्या ज्ञातृतैव प्राहिका, तथापि ग्राह्यग्राहकयो दः, यस्माद् विषयमेदेन सैव भिद्यते: न हि पटगतज्ञातृतायामघट जानाति; तत्र यदा घटादिविषया ज्ञातता ग्राह्या भवति, तत्रात्मविषया ग्राहिका 'घटमहं जानामि' इति । अम्बेकटीका, श्लो० वा० शून्य ७०।६ नापि शरीरालम्बनम् , तदालम्बनत्वे हि बाल्यावस्थायां मुखोऽहं सुखी दुःखी वाSSसम् , इदानीं तु विद्वान् निरुजो रोगी वाऽभूत् (भुवम् ) इत्यवगमो न स्यात् , बाल्यादिशरीराणां भिन्नत्वात् । न्यायभूषण पृ० ४९६ । द्र० न्यायकन्द० पृ० २०८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org