________________
१४५
भधीचक्रधरप्रणीतः [ का०पृ०३९१, विष्पृ० ४२५ यथा अविः अविशब्दः अविकन्यायेन अविकमुखेन प्रत्ययमुत्पादयतीति भिन्नपदत्वेनव्याख्येयम् । 'अन्यथाकृत्वा चोदितम्' इत्यत्र च सिद्धाप्रयोगत्वस्याविवक्षया णमुल्कृतः। भाष्यकारवचनाद्वा सिद्धाप्रयोगत्वेऽपि साधुरेवामित्येके ।
निपुणमतिभिः प्रतिसमाहितमेवेति । भर्तृहरिप्रभृतिभिर्हि तथा तव्याख्यातं यथा तेषां दूषणानामवकाश एव न भवतीति । तथाहि यत्तावच्चोदितं 'क्रियावचनत्वेऽस्तिभवत्यादीनां धातुसंज्ञा न प्राप्नोति' इति । तत्रैव प्रतिसमाहितम् नात्र लौकिक्याः क्रियायाः परिस्पन्दस्वभावाया धातुभ्यः प्रतीतिर्विवक्षिता येनास्त्यादीनां धातुसंज्ञा न भवेदपि तु शब्दार्थभूतायाः । तथाहि कारकव्यापारविषयीकृतोऽर्थः क्रियेति क्रियाशब्दार्थः । एतदेव भाष्यकृता कारका[183A]णां प्रवृत्तिविशेषः क्रिया' [महाभाष्य, १.३.१] इति वदता प्रदर्शितम् । तदेवं कारकप्रवृत्तिविषयः पूर्वापरीभूतोऽर्थः क्रियेति विवक्षायामस्त्याद्यर्थस्य साधनव्याप(पा)रविषयत्वेन पूर्वापरीभूतस्य शब्देनाभिधानात् क्रियारूपता। तथाहि-अस्ति आत्मानं बिभर्तीति गम्यते पूर्वापरीभावस्तदुक्तम्
यावत् सिद्धमसिद्धं वा साध्यत्वेन विवक्ष्यते ।
आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ वाक्यप० ३.८.१.] इत्येवमन्यत्रापि।
तेनैव प्रतिसमाहितानीति । तथाहि शोभेत्यादौ उद्भटेनैव प्रतिसमाधानं कृतम् । “अ प्रत्ययात्" इति [पा० ३.३.१०२] प्राक् प्रकृतिनिर्देशे कर्तव्ये प्राक् प्रत्ययनिर्देशाद् योगविभागकरणेनाप्रत्ययं कृत्वा 'शोभा' इति साधयेत् । 'चीर्णम्' इत्यत्र च प्रतिषेधविधेर्बलीयस्त्वात् क्वचिद् विहितबाधः, तेनेह विहितस्येटो बाधः । अनित्यमागमशासनमिति वा । उत्वं तु 'ति च' [पा. ७.४.८९] इत्यनेन सूत्रेण गत्यर्थवचेस्तेन लक्षणार्थस्येत्वेन भवितव्यम् । "ऋत इद्धातोः"पा० ७.१.१००] इत्यतः सूत्रादनन्तरं 'कृतश्च' इति कर्तव्ये यद् उपधाग्रहणं तदावृत्तिज्ञापनार्थम् च-ग्रहणं चैतद् रेफॉन्तमवसेयम् । “उपधायाश्च" [पा० ७.१.१० १] उपधाया ऋत[183B] इत्वं भवति चः चरश्चो पधाया इत्वमित्यर्थः। 'चर्' इति लुप्तषष्ठ्यन्तम्। 'न याति वाक्यं प्रतिभेत्तुम्' इत्यत्र च 'याति' इति तिङन्तप्रतिरूपको निपातः 'शक्यते' इत्यर्थे वर्तते । एवं हि 'अद्यास'इत्यत्रापि 'मास'शब्दो निपात एव 'बभूव' इत्यस्यार्थे । “कृत्यानां कर्तरि वा” [पा० २.३.७१]
१ द्र० पाणिनि ३.४.२७ । २ मुद्रितमअर्यां तु 'तैरेव समाहितानि' इति पाठः । ३ 'चर्' अथवा 'चः' इत्येवम् भवसेयम् । ४ उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः ।काशिका १४.५७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org