________________
१७९
का०पृ०३५८, वि०पृ०३८९] न्यायमञ्जरीप्रन्थिभङ्गः __अर्थप्रतीतिपारायें इति । अर्थप्रतीतौ पारार्थ्यमङ्गत्वम् । प्रयोगनियमापूर्वद्वारे(र)केति । यथा पक्षे प्राप्तेऽपि प्राङ्मुखभोजने नियमादपूर्वम् एवमर्थप्रतीतिपरत्वेन पक्षे प्राप्तेऽपि शास्त्रप्रयोगे नियमाद् यद् अपूर्व तेन द्वारेण । पर्णमस्यादिष्विति । 'यस्य पर्णमयी जुहूर्भवति [न] स पापं श्लोकं शृणोति' [तैत्ति० सं० ३. ५. ७] इत्यत्र जुह्वा होमसाधनत्वेन निर्ज्ञानात् फलश्रुतेरर्थवाद[182A]तैव व्यवस्थापिता । ननु तात्पर्यपर्यालोचनयाऽर्थवादतैव प्राप्नोति, तन्नेत्याह-शब्दशक्तितात्पर्ययेति ।
___शब्दसंस्कारादिविकल्पा इति । बहुभाषित्वादित्यनेन भट्ट सूचयति स हि बहुभाषित्वेन प्रसिद्धः । तथा च
भाट(भट्ट)स्य तस्य बहुभाषणलब्धकीर्तेदिमागदूषणमिदं न तु धर्मकीर्तेः ॥ इति ॥ [ ] तमेवं प्रतिपादयन्ति । तथा चाह सःसंस्कृतानां च शब्दानां साधुत्वे परिकल्पिते । वक्तव्यः कस्य संस्कारः कथं वा क्रियते पुनः ॥१॥ न तावदस्ति शब्दत्ववर्णत्वव्यक्तिसंस्क्रिया । सर्वत्रातिप्रसङ्गेन न व्यवस्था हि सिद्धयति ॥२॥ शब्दत्वे संस्कृते स्याद्धि ध्वनीनामपि साधुता । वर्णत्वेऽप्येकवर्णानां गाव्यादीनां च तुल्यता ॥३॥ गवादिषु गकारादिर्यः सकृत् संस्कृतः क्वचित् । गाव्यादिषु स एवेति साधुरेव प्रसज्यते ॥४॥ इत्यादि [तन्त्रवा० १.३.८.२८]
इतरेतराश्रयत्वमपि । व्याकरणात् साधुत्वपरिज्ञाने सति तत्प्रयोक्तृणां शिष्टत्वम् , सति च शिष्टप्रयोगे व्याकरणस्य प्रामाण्यमितीत[रत]राश्रयत्वम् ।।
तदपनयनमार्गः प्रदर्शित इति । तत्र मन्वादिवचनानि तावच्छान्दसरूपसिद्ध्या सिद्धयन्ति 'वेदवद् वेदविद्वचः' इति वचनात्। 'जनिकर्तुः''तत्प्रयोजकः' इति च [182B] निपातनात् सिद्धयति । तत एव ज्ञापकात् 'जातिवाचकत्वात्' इति च सिद्धः । 'आन्यभाव्यम्' इत्यगुणवचनत्वेऽपि ब्राह्मणादिपाठात् ष्य । 'अविरविकन्यायेन' इत्यत्र तु
१ द्र० पाणिनि १.४.३० । २ द्र० पाणिनि २.२.१५ । ३ द्र० पाणिनि ५.१.१२४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org