________________
भट्टश्रीचक्रधरप्रणोतः [का पृ०३८८, वि०पृ०४२ ग्रस्तनिरस्तेति । ग्र[ 181A ]स्तो जिह्वामूलेन गृहीतः अव्यक्तो वा, निरस्तो निष्ठुरः, रोमशो गम्भीरः, अम्बूकृतो यो व्यक्तोऽप्यन्तर्मुख इव श्रूयते' । आदिग्रहणं कलादिपरिग्रहार्थम् ।
क्वचिदाचारतचापीत्यस्य पूर्वमर्ध[ म्] - 'संस्थानेन घटत्वादिब्राह्मणत्वादिजातितः' [श्लो॰वा. वनवाद २९] इति; व्यज्यत इति प्रकृतम् । शास्त्रमपि श्रुतिस्मृतिरूपं 'साधुभिर्भाषितव्यम्' इत्यादिकं, प्रत्यवायप्रतिपादकं चेति ।
यस्तु प्रयुक्ते कुशलो विशेषे शब्दान् यथावद् व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ।।इति।। [महाभाष्य १.१.१]
विशेषे कुशलो यथा स एव शब्दः क्वचित् प्रयुक्तः साधुरन्यत्रासाधुः 'अस्व' शब्दो हिं निर्धने साधुः, तुरगे वसाधुरिति । दुष्यति चापशब्दैर्दुष्टो भवतीति । कः ? अवाग्योगविदित्यर्थसम्बन्धः ।।
व्रीहिकलजवदिति । 'व्रीहिभिर्यजेत', 'न कलर्ज भक्षयेत्' इति । कलजाख्यः शाकभेदः । यथोपदर्शितेन प्रकारेण । साधुभिर्भाषणं कार्य [181B] न तु [असाधुभिः] । साधव एवंभूता इत्येवमिति विध्यपेक्षितमिति । येन येन विना विधेरसिद्धिस्तत्तत्स्वरूपसिद्धये असावाक्षिपति, साधुत्वांशावगमं च विना अस्य न सिद्धिरिति यतः साधुत्वावगमः तदपि व्याकरणमाक्षिपत्येव । मूलशास्त्रमपीति यदा ह्येतेन साधुस्वरूपं निर्णीतं तदा तदनिर्णयद्वारकं मूलशास्त्रस्य यदप्रमाण्यं तन्निवर्तत एव ।
पाचकत्वादिविदिति । 'पाचकः पाचकः' इति व्यपदेशस्य पचिक्रियानिबन्धनत्वात् न पाचकत्वसामान्यम्, अपाचकव्यवच्छेदकं तु भवत्येव ।
फलतः परिसङ्ख्याकार्यमिति । यथा-' इमामगृह्ण(भ्ण)न् रस(शोनाकृ(मृ)तस्य' [तैत्ति०सं० ४.१.२.] इत्यश्वाभिधानी(न)मादत्त इत्य(ति) प्राप्तमेवाश्वरशनादानं मन्त्रेण विधीयमानं फलतो गर्दभरशनानिवृत्तिं करोतीति ।
१ द्र० महाभाष्यप्रदीप पृ०७४ । २ कलः स्थानान्तरनिष्पन्नः काकलिकत्वेन प्रसिद्धः । महाभाष्यप्रदीप पृ० ७४ । ३ मुद्रितमञ्जर्यां तु 'आह कलञ्जवत्' इति पाठः । ४ मुद्रितमजयां तु 'यथोपवर्णितेनैव प्रकारेण' इति पाठः । ५ मुद्रितमजयां तु 'मूलभूतम्' इति पाठः । ६ द्र० तत्त्वसं० पृ० २४६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org