________________
का पृ०३८८, वि०पृ०४२२] म्यायमञ्जरीग्रन्थिभङ्गः
१७७ प्रतिपदमशक्यत्वादिति । यथा तैरेवोक्तं 'बृहस्पतिरध्यापयिता शक्रोऽध्येता दिव्यं वर्षसहस्रमायुस्तथापि नान्तं जगाम' इति' । तथा लक्षणस्य । सामान्यविशेषवतः। अव्यवस्थानात् । न्यूनत्वात् । सूत्रकृता न्यूनानि सूत्राणि कृतानि, वार्तिककृता 'अन्ताच्च इति वक्तव्यम्' [वार्तिक६.३.११] इत्यादीन्युपसङ्ख्यानानि कृतानि, पुनर्भाष्यकारेण "मृजेरजादौ सङ्क्रमे विभाषावृद्धिरिष्यते” इत्याद्या इष्टयः कृताः, एवं च महापुरुषत्रयपरिग्रहेऽपि शोभा चीर्णमित्याद्यसिद्धिः । तत्रापि च स्खलितदर्शनात् । स्खलितानां संदेहविपर्ययाप्रतिपादकत्वादीनां दर्शनात्। 'अनवस्थाप्रसङ्गाच्च' इति सूत्रावयवः स्वयमवतारणिकासमय एव व्याख्यातः ।
कड(ट)न्दीकोद्रवोदन इति। कड(ट)न्दी वैशेषिकभाष्यविशेषः । मनुष्योक्तिवदिति । यथा प्रागुक्तनीत्या सर्वासङ्ग्रहादिना लौकिकेषु वचनेषु वैयाकरणो न व्युत्पत्तिं लभते तथा वैदिकेष्वपीत्यर्थः । अप्रतिपत्तिमन्थरमुख इति । प्रतिपत्तरभावेनाप्रतिपादकत्वेन मन्थर[ 180B ]मुखो निष्क्रियवदनो मूक इव ।।
समानविधित्वं तुल्यत्वम् । शब्दे प्रयत्ननिष्पत्तेरिति । न हि यादृगेव परेण शब्द उच्चार्यते ताडगेव प्रत्युच्चारि(च्चारयि)तुं शक्यते; यस्मात् प्रयत्नान्निष्पाद्यते अभिव्यक्ति याति शब्दः, अतः शब्देऽपि [अ]पराधस्य भागित्वम् । पुरुषापराधस्य भाजनं शब्दः सम्भाव्यते अतः पुरुषापराधवशादन्यथाप्युच्चार्यते ।
न तन्मन्दतायामापत्तिमन्दतायाम् । क्व वा न समयः प्रतिपत्युपायः, साधुशब्दानामपि सामयिकत्वाभ्युपगमात् ।।
किं त्वपनीतातिव्याप्तीति । तत्र “किति च" [पा०७.२.११८ ] इति गुणवृद्धिप्रतिषेधे 'मार्जन्ति' इत्याद्यभिप्रेतविषयव्याप्तेरतिव्यापकमाशङ्क्य भाष्यकृतोक्तम् "मृजेरजादौ सङ्क्रमे विभाषावृद्धिरिष्यते” इत्यादि ।
प्रयोगो नास्त्यसकर इति । प्रयोगादपि साधुत्वनिश्चयो नास्ति, साधुभिरिवासाधुभिरपि व्यवहारादित्यर्थः ।
१ द्र. महाभाष्य पृ०५० । २ मुद्रितमञ्जयां तु 'कपत्री' इति पाठः । ३ या कटन्दी अन्यत्र नयचकटीकादिग्रन्थेषु 'टीका'अभिधया निर्दिश्यते सा अत्र चक्रधरेण स्पष्टतः 'भाष्य' अभिधया उल्लिख्यते । अतः 'अनर्घराघव'नाटके निर्दिष्टा रावणप्रणीता कटन्दी किरणावलीभास्करे, ब्रह्मसूत्रशाङ्करभाष्यरत्नप्रभाव्याख्यायां प्रकटार्थविवरणे च निर्दिष्टाद् रावणभाष्यादभिन्नैव प्रतिभाति । कोऽयं रावणो नाम इति चिन्त्यम् । वाक्यपदीयस्य पुण्यराजकृतायां टीकायां (पृ०२८५-६) एकस्य वैयाकरणस्य रावणस्योल्लेख्नः अस्ति । ४ मी०सूर १.३ .८.२५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org