________________
का०पृ०३५८, वि०पृ०३८९] न्यायमञ्जरीग्रन्थभङ्गः
सराम इति । आख्यातपक्षे प्रत्ययस्वरेणान्तोदात्तः पदद्वयपक्षे स इति प्रातिपा(प)दिकस्वरेणोदात्त: राम इति च "कर्षात्वतोञोऽन्त उदात्तः” [६।१।१५९ काशिका] इत्यन्तोदात्तः। सह रामया वर्तत इति तु बहुव्रीही पूर्वपदप्रकृतिस्वरेणाद्युदात्तः ।
शङ्काया अपि तत्कार्यहेतुत्वादिति । शङ्काविषेणापि मरणं दृश्यते यतः ।
अभ्यस्तत्वाद् विषयस्येति । अविनाभावस्मृत्यभावेऽपि रेखावगमसमनन्तरं वर्णावगतेः ।
बुद्धिर्वाच्यं [वाचकं वेति । घटमहं प्रतिपादयामीति वाच्यमुल्लिखन्ती, घटशब्दमुच्चारयामीति तु वाचकमुल्लिखन्ती। न प्रकाशवपुषो वाग्पता शाश्वती । नैव काचित् सम्भवतीत्यर्थः । तदेवाह-जातेऽस्मिन्निति ।
इति विततयेति । क्रमोपलब्धवर्णविषयया सङ्कलनारूपविततया । न च विधिहत इति । विधि[162B]ना दैवेन हतो यथा सकलसदुपलम्भकप्रमाणाविषयस्तद्वद् य इत्यर्थः । बहुना वा क्लेशेन तस्य निराकरणादाक्रोशः ।
अन्यथाऽप्युपपद्यमाना पदार्थेभ्योऽपि ।
एकमेव संस्कारमिति । पूर्ववर्णजनितसंस्कारः । पूर्ववर्णैर्यो जनितः संस्कारः स एव किमुभयं करोतीति ।
संसृष्टः पदार्थः समुदाय इति संसर्गवाक्यार्थपक्षे । इतरविशिष्टो वेतर इति भेदवाक्यार्थवादिमते।
अन्त्यपदस्यान्यत्राचरितार्थत्वादिति । अन्त्यपदज्ञानोत्तरकालं हि न पृथगन्त्यपदार्थप्रतिपत्तिरस्ति तस्यैव वाक्यार्थत्वादिति ।
कथं भवानित्यादिना भट्टमुपालभते-स्वभावहेतुवादिन इति । स ह्यभिन्नयोरेव भावयोर्गम्यगमकभावमाह ।
सामान्यान्यन्यथाऽसिद्धेविशेषरहितानि सामान्यान्यसिद्धयन्ति विशेषमाक्षिपन्तीति अर्थः ।
न चानुमानमेषा धीरिति । न चानुमानमेषा धीस्तन्मात्रेण प्रसज्यते । प्रतिज्ञार्थंकदेशत्वात् पदार्थानां ह्यलिङ्गता ॥ पदार्थैरनुरक्तो हि वाक्यार्थः सम्प्रतीयते ।
नात्मना गमयन्त्येनं विना धूमोऽग्निमत्त्ववत् ॥ १ श्लोव्वा अर्थापत्ति, ७० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org