________________
१६४
भट्टश्रीचक्रधरप्रणीतः
[ का०पृ०३५०, वि०पृ० ३८०
अ .... .... ति प्रत्यावृत्तिनिरूपणमस्ति । उपलब्ध्यनन्तरसत्ताकाऽनादि .... स एव वा स्फोटादिति । शब्दस्यार्थप्रतीतिहेतोर्वर्णादि .... ... .... [161A] क्रमस्तु केषां क्रम इति । सापेक्षत्वात् सर्वथा .... .... .... .... शास्त्रकारा इत्यनेन निरुक्तकारयास्काचार्यान् परामृशति । अ .... ति । प्रक्रम्याभिधानात् श्रोत्रग्राह्यत्वविशिष्टमिति । गौरिति .... .... .... रिकल्पिता गकाराद्यारम्भकाः परमाणव उच्यन्ते । परशब्दे .... ..... .... इति कैश्चित् स्फोटशङ्किभिरिति प्राभाकरैः, भाट्टा हि गत्वादि ...... धानाभावात् । शब्दाध्यासस्त्विति । शब्दाकाराध्यारोपेणार्थस्य .... [ 161B ]
[अंशाः सन्ति न सन्तीति । निरंशश्चेत् प्रमाणेनोपलभ्येत, तथाविधोपलम्भादेवांशाभावसिद्धेः किमंशाभावप्रतिपादनचिन्तया; प्रत्यक्षं चांशानामुपलम्भादिति ।
सादृश्यमिति चेदिति । यादृशा एव स्थानकरणादिसामान्यात् 'देवदत्त गामभ्याज' इत्यादौ वाक्येऽभिव्यञ्जका ध्वनयस्तादृशा एव 'गामानय' इत्यत्रापि वाक्ये इति ध्वनिसादृश्याद् यथा तत्र गोशब्दोऽस्त्येवमत्राप्यस्तीति भ्रमः ।
पदार्थपर्यन्ता भवति । आवापोद्वापकल्पनया 'रक्तः पटो भवति' इति महावाक्यम्, रक्ताख्येन गुणेन पटस्य सम्बन्धप्रतिपादनार्थम् ; अवान्तरवाक्यं तु 'पटो भवति' इति; स्वार्थश्चास्य पटसत्तासम्बन्धलक्षण इति ।
यत्र पदान्तराणामर्थ इति । यथा संत्रियतामपात्रियतामित्यस्यार्थेऽर्थप्रकरणादिलभ्ये द्वारमिति केवलं प्रयुज्यत इति । कार्यान्तराय रथावयवा इति । कार्यान्तरं रथादन्यत् काष्ठमात्रसाध्यं दर्शनं वा। वर्णा अपि कार्यान्तर इति । यथा अकारादयो विष्ण्वादिवाचकाः । वर्णा अपि के चि]दिति । पदे ये वर्णाः प्रकृतिप्रत्ययादयः स्वा[162A]र्थेन चार्थवन्तस्ते ।
यत् पुनः कूपम्पेति आह चयत् कूपसूपयूपेषु समानेऽप्यूपबन्धने । नास्त्यर्थानुगमः कश्चित् तन्न शब्दोऽपराध्यति ॥] नान्वयव्यतिरेकाभ्यामपूर्वार्थोऽवधार्यते । सङ्कीर्णेऽवगते ह्यर्थे ताभ्यां शक्तिर्नियम्यते ॥ इति ॥ [श्लो०वा० वाक्याधि०
१६१-१६२]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org