________________
१६३
का०पृ०३४७, वि०पृ०३७८ ] न्यायमञ्जरीग्रन्थिमङ्गः
अथ तस्यां तथाविधायामवस्थायां शब्दरूपानुगमे किं प्रमाणमिति तदाहअलमतिप्रसक्तेति । तस्य चावयव(वि? )व्यवस्थाऽनुपपत्तेरिति । यथा प्रतिपादितं 'काले नदन्ति नागाः' इत्यत्र ।
प्रकृतिलघवः स्वभावत एव लघवोऽसाराः अस्थिराः । परं यदि सङ्कलनाद्यात्मिकायां कल्पनाबुद्धावारूढानां तेषां स्थितिर्न स्वरूपेण, क्षणिकत्वादिति ।
उखा स्थाली । पक्षद्वयप्रयोज्यत्वेनेति । दशैं हि त्रयः प्रयुज्यन्ते पूर्णमास्यां च त्रय इति । तथैन्द्रवायवं गृह्णातीति । सोमेन यजेतेति उक्तम् । तत्र कथं यजेतेत्यपेक्षायां 'ऐन्द्रवायवं ग्रहं गृह्णाति' 'आश्विनं ग्रहं गृह्णाति' इत्यादयः सोमग्रहग्रहणाभ्यासा उक्ताः । सोमरसो विशिष्टपात्रस्थः सोमग्रहस्तस्य देवतोद्देशेन यदादानं तद् ग्रहणम्, तेषां ग्रहणानां विशिष्टदेवतोद्देशेन बहूनां यानि सम्पादनानि तान्येव कृतस्य ग्रहणस्य पुनःकरणरूपतयाभ्यासाः । न[160A] ह्यभ्यासं विनाऽसौ सोमरस ऐन्द्रवायवमकृत्वा आश्विनः कर्तुं शक्यत इति, ते च क्रमभाविनः । ऐन्द्रवायवो हि तदा भवति यदेन्द्रवायुभ्यां सङ्कल्प्यते, सङ्कल्पश्च न यागं विना भवतीति प्रकृत्यंशो यागः; स च क्रमेण निर्वय॑मानोऽपि ज्योतिष्टोमाधिकारलक्षणं प्रधानाधिकारं निर्वर्तयतीति ।
अवान्तरापूर्वमिति । भट्टपक्षेऽवान्तरापूर्वं शक्तिरूपम्, प्रभाकरमते तु अवान्तराग्नेयादिनियोग एव । कुतस्तस्यानुपलभ्यमानस्य कल्पनेति चेत् तदाह-शब्दप्रामाण्यादिति । आग्नेययागस्य क्रियारूपत्वात् क्षणिकत्वेनान्यप्रधानयागकालेऽनवस्थितत्वेन फलनिवृत्तौ सहकार्ययोगात् तत्करणं निष्फलमेव प्रसज्येत । न च निष्फलं प्रमाणभूतशब्द उपदिशतीति तत्कल्पनम् । आग्नेयावयवभूतक्रियाक्षणानामिति । चतुरो मुष्टीनिर्वपतीति व्रीहीनवहन्ति तन्दुलान् पिनष्टीत्यादय आग्नेययागावयवाः क्रियाक्षणाः ।
अनुव्यवसायरूपमिति । बाह्येन्द्रियेण व्यवसितस्य निश्चितस्य अनु पश्चात् मानसं यन्निश्चयनं सोऽनुव्यवसायः । तन्निबन्धना भूयां 160B] सो व्यवहारा इति । यथा प्रदर्शितम् शतमाम्राणीत्यादिव्यव तिः । प्रामाणिकी व्यवस्था । सद्भावव्यतिरेकौ चेति । स्फोट .... .... क्रियतेऽसौ वर्णेभ्योऽर्थबुद्धिजन्मन्येव क्रियतां कल्पना ला "आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते" [वाक्यप०१.८२] इति । आवृत्त्या
१ १६१ पत्रमस्ति खण्डितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org