________________
१६६
भट्टश्रीचक्रधरप्रणीतः
[ काल्पृ०३५९, वि०पृ०३९०
पक्षधर्मत्वमेतेषां[163A] वाक्यार्थे च न गम्यते । न हि देशादिवत्पूर्वं निष्पन्नः सम्प्रतीयते ॥
असत्त्वभूतमेनं हि प्रतिपद्यामहे ततः । इत्यादिना। [श्लो०वा. वाक्याधि. २३२-३५]
किमिदानीमर्थापत्तिगम्यो धर्म इति । धर्मस्य वाक्यार्थत्वाद् भवन्मते स च प्रमाणान्तरागोचरः शब्दैकप्रमाणगम्य इति यूयं स्थिताः।
आनुमानिकोऽयं प्रत्यय इति । श्वेतरूपदर्शनादीनामश्वतद्भावभावित्वेनासकृद्दर्शनात्' ।
तत्स्मृतिकाले पदार्थज्ञानोपजनादिति । अविकलकारणस्यानुत्पत्तौ हेत्वभावात्, तस्य ह्युत्पत्तौ सङ्केतस्मरणोपकृतं पदज्ञानमविकलं कारणमिति ।।
स्वस्ति तर्हि न्यायविस्तरायेति । न्यायविस्तरो न्यायशास्त्रम्, तद्धि शब्दानित्यत्वप्रतिपादनाय, आप्तोक्तत्वेन वेदप्रामाण्यसमर्थनात्; असंवेद्यमानस्य चास्तित्वे सामान्यादिवन्नित्यत्वापत्तिः । सत्यपि वा पुनः तदवगम इति । पदज्ञानानन्तरपूर्वपदसङ्केतस्मरणयोरवश्यमुत्पादात् ।
___ अथ सार्थकानि स्मर्यन्ते तहि समयस्मरणेति । पदज्ञानानन्तरं हि यदैव सङ्केतस्मरणं तदैव पदार्थज्ञानमपि प्राप्नोति, सङ्केतस्मरणोत्तरकालं तु[163B] तदभ्युपगमेऽन्त्यपदनीत्या पदज्ञानस्य विनाशात् पदशून्यः पदार्थप्रत्ययः स्यादिति समयस्मरणपदार्थज्ञानयोः साकय युगपदुत्पत्तिः ।
'स्व विषय]वच्छेदेन पदार्थज्ञानमिति । गोशब्दाद्धि गोशब्दवाच्यत्वेन सास्नादिमानर्थोऽवगम्यते न केवलं सास्नादिमत्त्वेन । तस्मिन् स्मरणे तथाऽन्त्यपदार्थज्ञान इति । अन्त्यपदार्थज्ञानस्यापि वाचकावच्छेदेनैवोत्पत्तेः ।
न बुद्धिमात्रेण बुद्धिमात्रमिति । सङ्केतस्मरणं हि संस्कारकार्य न पदज्ञानकाथमिति मन्यते । त्रीणि ज्ञानानि युगपदवतिष्ठन्त इति । पदज्ञानस्य तावद् विनश्यदवस्थस्य त्वथैव सत्ताऽभ्युपगता सङ्केतस्मरणस्य च पदार्थज्ञानोत्तरकालं विनाशादिति
सत्यपि पूर्वपदानुराग इति । यथा चार्ष(यथाचार्य) मतव्याख्यानावसरेऽव्यपदेश्यपदे दण्डीत्यादीनां शुद्धपुरुषालम्बनत्वं प्रतिपादितमिति । तथाविधस्य गृही
१ श्लोव्वा वाक्याधि० ३५८ । २ द्र० पृ० ४४ टि. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org