________________
का०पृ०३३६, वि०पृ०३६६] न्यायमञ्जरोग्रन्थिभङ्गः
१५७ नाना प्रकारकार्योत्पाद इति । नानाप्रकाराणि पलायनसंरम्भादीनि कार्याणि बाह्यस्यार्थस्यैकाकारत्वेऽपि भवन्तीति बाह्यार्थानपेक्षा, स्ववासनानुसारेण प्रमातृणां वाक्यादुपजायमाना प्रतिभैव वाक्यार्थ इति' । प्रतिभावन्तो (भान्तो?)ऽर्थाः। प्रतिभया वाक्यार्थज्ञानेन विषयीकृताः । ननु वाक्यजन्ये ज्ञाने यद्यर्थाः प्रतिभान्तीत्यभ्युपगम्यते तदाऽतीताद्यर्थप्रतिपादके वा[155B]क्येऽर्थानामसत्त्वात् कथं वाक्यार्थज्ञानजनकत्वमित्याशङ्क्याह-शब्दस्य प्रत्यक्षवदिति ।।
भट्टश्रीशङ्करात्मजश्रीचक्रधरकृते
न्यायमञ्जरीग्रन्थिभङ्गे पञ्चममाह्निकम् ॥ १ वैयाकरणाः । द्र० वाक्यप० २. ११७-१४५ विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते वाक्यार्थ इति तामाहुः पदार्थ रुपपादिताम् ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org