________________
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०३३१, विष्पृ० ३६१ तच्च न पृथगभिधातुं युक्तमिति । भावनैवावगम्यमाना स्वसामर्थ्यवशाद् यागस्य श्रेयस्साधनत्वं विना नावगम्यतेऽतो भावनाशब्दादंशत्रयात्मकतत्स्वरूपवत् फलसाधनत्वमप्यंशगतं समधिगतमेवेत्यव्यभिचरिततद्रूपत्वाद् भावनायाः पृथक्छब्दान्तरेणाभिधानं तस्यायुक्तम्, गतार्थत्वात् ; न चांशत्रयात्मिकायास्तस्या एकांशगतेन श्रेयस्साधनत्वेन व्यप[154B]देशो युक्तः । यदि हि तदपेक्षया श्रेयःसाधनत्वम्, तत्फलापेक्षया न श्रेयस्साधनत्वम् अपि तस्य फलस्य स्वयं श्रेयोरूपत्वेन श्रेयःसाधनत्वाभावादिति । कथ्यमानो हि पृथग्धर्मः स वक्तुं युक्तो योऽशत्रयसाधारणः । न च श्रेयःसाधनत्वमंशयसाधारणमिति भावः । तैरिति माण्डनान् निर्दिशति । न चांशद्वयावच्छिन्नस्येति अंशद्वयं करणेतिकर्तव्यताख्यम् । अनुत्पन्नस्य फलांशापेक्षया अपरिपूर्णस्य । [ताद्रूपयेति] ताद्रूप्यं श्रेयःसाधनत्वम् । श्रेयस्साधनत्वं हि भावनायाः सामान्यम्, न भावनैकदेशस्य । अन्यथा हि भावनायाः श्रेयःसाधनत्वम्' इति व्यपदेशो न स्यात् ।
प्रत्यक्षादिसमानत्वादिति । यथा प्रत्यक्षं वस्तु दर्शयति, केवलं यस्तु तत्रार्थी स प्रवर्तते । एवं विधिः फलं प्रदर्शयति, फलार्थिनस्तु तत्र प्रवृत्तिरिति ।
व्यतिषक्ततोऽवगतेरिति'। प्राभाकरवचो ज्ञापकत्वेनाह । व्यतिषक्तेभ्यः सम्बद्धेभ्यः पदार्थेभ्यो व्यतिषङ्गः सम्बन्धोऽवगम्यते । न यसति सम्बन्धे सम्बद्धपदार्थप्रतीतिरित्यार्थी सम्बन्धप्रतीतिः ।
प्राधान्यमेव हि तथा सति न स्यादिति । न हि प्रधानानां परस्परसम्बन्द्रो(न्धो) भवति परस्परसम्बद्धपदार्थप्रतिपादकं च वाक्यम् , अतः सम्बन्धबलात् सर्वेषां प्राधान्याभावः । द्रव्यस्य चिकीर्षक(र्षित ?)त्वेन द्रव्यसंस्कारकत्वेन ।
शुक्लगुणसंस्पृष्ट इति । यदि ह्यन्यव्यवच्छेदस्तस्य नास्ति तदा शुक्लेनैव गुणेन संसर्गो न स्यादित्यार्थोऽसौं ।
कचित् प्रकरणागतम् । फलवत्प्रकरणे समाम्नानात् प्रयाजादिष्विव । कचिदालोचनालभ्यं विश्वजिदादाविव । नित्यैस्तु(त्येषुः) विधिस्वरूपपर्यालोचनालभ्यम् ।
अथवा फलमेव वाक्यार्थो न संसर्ग इति 'प्राधान्ययोगादथवा फलस्य' इत्यादिनाह ।
न तु शब्दस्य विषय इति । अर्थो हि तस्य विषयः । १ बृहती १.१.७ पृ०३८६ । २ द्र. शाबरभा १. १. ७. २४, तन्त्रवा० २.१.१४.४६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org