________________
का०पृ०३३१, वि० पृ० ३६१]
न्यायमञ्जरीग्रन्थिभङ्गः
१५५
घृतकुल्या अस्य भवन्तीत्यादिवदिति । यथा 'स्वाध्यायोऽध्येतव्यः' इत्यस्य दृष्टेनार्थावबोधलक्षणेन फलेन फलवत्त्वाद विधेः “यह चोऽधीते घृतकुल्या भवन्ति" इत्येवमादीनामर्थवादमात्रतयैवान्वयः, न पुनः फलतया विधिस्तान्यपेक्षते । अश्रुतोऽपि चासाववबोधादिः ।
उपात्तदु [153B]रितक्षय एवेति । प्रत्यवायस्य परिहारोऽनुत्पत्तिः प्रागभावस्तस्य नित्यत्वात् साध्यत्वानुपपत्तिः, अत उपात्तदुरितक्षयो नित्यानां फलमिति केचित् । अन्ये तूभयमेव फलमिति । अपरे तु येषामकरणे प्रत्यवायः श्रूयते तेषां करणात् प्रत्यवायपरिहारः, येषां त्वकरणात् प्रत्यवायश्रुतिर्नास्ति तेषां करणादुपात्तदुरितक्षयः फलमित्याहुः । उपात्तस्य सञ्चितस्य दुरितस्य क्षयः प्रध्वंसः । इतरथा हीति । ब्रह्महत्यादेरनिष्टसाधनत्वाद [न] भ्युपगमेन । “कोऽर्थः ? योऽभ्युदयाय ज्योतिष्टोमादिः, कोऽनर्थः ? यः प्रत्यवायाय श्येनो वज्र इषुरित्येवमादि:' [शाबरभा० १.१.२] इति योऽर्थानर्थविवेकः ।
ब्रह्महत्यादेः साक्षाद्धिंसारूपस्य । श्येनवज्रादेः फलद्वारेण, न साक्षात् । अत एव काम्यानां कर्मणामिति । यत एव सकलाङ्गोपबृंहितस्वरूपो भावार्थः काम्यमानोपायतां प्रतिपद्यते सर्वेषामङ्गानामुपसंहारेणानुष्ठानसम्पत्त्या । विनियोगपर एव स्यादिति । विनियोग ऐदमर्थ्यम्, यज्ञात् स्वर्गो भवती
त्यादि ।
फलतः किल कथ्यत इति । न साक्षात् प्रेरकत्व [ 154A ] योगेन त्वयापि । तत् सर्वत्र वैध्येव प्रवृत्तिरिति तात्पर्यम् ।
स्वर्गार्थी तु विधितः प्रवर्तते एव,
अप्रवर्तमानो न स्वर्गार्थी स्यादिति
भावः ।
नान्या काचित् प्रेरणाऽऽकूतविशेषः 'प्रवर्तितव्यं मयाऽत्र' इत्यादिकः । स्मरणादभिलाषेणेत्यस्य पूर्वमर्धम् – “तद्दृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः” इति [ प्रमाणवा० भा० २.४.१८३] ।
अननुविधेयवचनादिति । यस्मिन्नाराधिते कार्यं किञ्चित् सिध्यति सोऽनु
विधेयः ।
वेदार्थप्रयोक्त्राशयानवधारणादिति । नित्यत्वे तदाशयाभावादनवधारणम्, अनित्यत्वे तु ज्योतिष्टोमादिकर्मानुष्ठानं लोकः कुरुतामित्येवंरूपस्तस्याशयः । यदि न कुरुते तदसावाज्ञाभङ्गात् स्वामिवत् कुप्यतीति नावधार्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org