________________
१५४
भट्टश्रीचक्रधरप्रणीतः [ कापृ०३२७, वि०पृ०३५६ हि तस्येति । कार्यत्वाद्ध्यसौ स्वात्मनः कार्यतानिर्वाहाय सर्वं प्रयुक्त इति भावः । यद्येवं भावार्थ एव साध्य इति । तस्यैव सिद्धया फलसिद्धेः ।
किञ्च, अन्विताभिधानेनेति । प्रकृत्यर्थानुरक्तस्य सर्वदा पदात् प्रतीतेः, निर्विषयस्य च प्रतीतिवदनुष्ठानासिद्धेरतो विषय एव 'यत एतद्विषयो नियोगोऽतोऽहममुं नियोगमेतेन [152B]करणभूतेन साधयामि' इति तं प्रति करणीभवतीति तस्यै भावार्थनिष्पाद्यता । समत्वं च द्वयोर्भवेदिति । समत्वे चैकस्मिन् वाक्यार्थे गुणप्रधानाभावादनन्वयः । . नियोगश्च शब्दैकगोचरत्वान्मा दर्शीति । यदुक्तं कुर्यादित्यस्यार्थः कुर्यादित्यनेनैव शब्देन प्रतिपाद्य इति । तद्विषयाया लिप्साया अनुपपत्तेरिति । तद्विषयायाः भावार्थविषयायाः । पुरुषार्थसाधने हि लिप्सातः प्रवृत्तिर्भवति । नियोगस्य चापुरुषार्थत्वात् तत्साधनमपुरुषार्थसाधनम् ।।
श्येनादीनामधर्मत्वमिति । एवं हि श्येनादीनामपि नियोगसाधनत्वादपुरुषार्थसाधनत्वेन न लिप्सातः प्रवृत्तिः स्यात् ।
सिद्धमित्यतिविस्मय इति । शाब्दसिद्धयभिप्रायेणोक्तम् ।
शब्दवृत्तेन फलमपीति । यथा कस्यचिदमात्यस्य 'राज्ञाऽसौ ते ग्रामो दत्तः' इति यदैवाभिहितं तदैव तस्य साध्यसिद्धयाऽसौ ग्रामः सिद्धः, कालान्तरे तु गत्वा स्वीकारादिनाऽऽनुभाविकी सिद्धिर्भाविनीति ।
स हि प्रेरणात्मक इति । यदैव हि प्रेरितोऽहमिति प्रतिपत्तिरुपजायते तदै[153A]व तस्य सत्त्वम्; यदा वा साध्यमेतदिति तद्विषया प्रवृत्तिस्तदा तस्य साध्यतया सत्त्वम् ।
नियोज्यश्चाण्डालस्पर्शनेनेवेत्यनेन एकादशाद्यपूर्वपक्षोक्तं निमित्तपरत्वं स्वर्गकामादिपदानां प्रदर्शयति । यथेच्छतोऽनिच्छतो वा चाण्डालस्पर्शे जाते स्नानेऽधिकारस्तथा स्वर्ग प्रति य इच्छां करोति तस्य यागेऽधिकार इति ।
ननु च स्वर्गकामोऽत्रेति । अनेन स्वर्गस्य प्रीतिरूपत्वात् , प्रीतेश्च भाव्यत्वेनैवान्वयो युक्त इति पूर्व स्थापितं तदेव सूचितम् , चाण्डालस्पर्शे स्नायादित्यत्रेच्छा न श्रुता, इह तु सा श्रुता, अतोऽत्र साध्यत्वेनैवान्वयो युक्त इति यावत् । . भवेज्जीवनवानिव । असाध्येऽपि स्वविशेषणे ।
नित्येऽपि फलवादिभिरिति । प्रत्यवायपरिहारं ये फलमिच्छन्ति । . १ एकादशाध्यायस्य प्रथमपादे पूर्वपक्षत्वेनोक्तमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org