________________
॥ षष्ठम् आह्निकम् ॥ ॥ ॐ नमः शिवाय ॥
बीजं पदार्थ वाक्यार्थ बुद्धेः पदवाक्ये |
व्यस्तसमस्तविकल्पोपहतत्वेनेति । व्यस्तानां प्रत्येकवाचकत्व इतरवर्णाच्चारणवैफल्यप्रसङ्गः । सामस्त्यं तु नास्ति क्रमोपलभ्यमानानामिति वक्ष्यति' । स्फोटात्मा अभिव्यञ्जकैर्नादैः स्फुटीक्रियते व्यक्ति नीयत इति स्फोट इति नाम्ना व्यपदेश्यः ।
स्फोटस्य च नित्यत्वेनेति । स ाक्रमो निरवयवश्च नित्य एव कल्पयितुं शक्यते; अर्थप्रतीत्या हि स कल्प्यते न चानित्यादर्थप्रतीतिरुपपद्यते, सङ्केतकालावगतस्येदानींतनस्य चान्यत्वात् ; स च स्थित एव केवलमभिव्यज्यते ध्वनिभिरिति । न चक्षुरादीनामिव कारकत्वमिति । चक्षुरादीनि ह्यगृहीतसङ्गतीनि यतः प्रमां जनयन्ति अतस्तान्यर्थस्य न ज्ञापकानीत्युच्यन्ते ज्ञापकधर्मविर [156A]हात्, अपि तु अर्थप्रतीतेर्जनकानीति ।
क्रमेण ते स्मरणे इति । एकस्य स्मरणस्योत्पादकाले ज्ञानस्य ज्ञानान्तरा(२) विरोधित्वादन्त्यवर्णज्ञानस्य विनश्यत्ता द्वितीयस्मरणोत्पादकाले तस्य विनाश इति । सङ्कलनाज्ञानमिति । क्रमगृहीतानामेकस्मिन्ननन्तरकालभाविज्ञाने सङ्कलितानां समुच्चितानां प्रतिभासनं सङ्कलनाज्ञानं शतादिसमुच्चयज्ञानवत् ।
१ प्रत्येकमप्रत्यायकत्वात् साहित्याभावात् नियतक्रमवर्तिनामयौगपद्येन सम्भूयकारित्वानुपपत्तेः, नानावक्तृप्रयुक्तेभ्यश्च प्रत्ययादर्शनात् क्रमविपर्यये यौगपद्ये च । तस्माद् वर्णव्यतिरेकी वर्णेभ्योऽसम्भवन्नर्थप्रत्ययः स्वनिमित्तमुपकल्पयति । स्फोटसि० पृ०२८ । ते खल्वमी वर्णाः प्रत्येकं वाच्यविषयां धियमादधीरन नागदन्ता इव शिक्यावलम्बनम्, संहता वा ग्रावाण इव पिठरधारणम् ? न तावत् प्रथमः कल्पः; एकस्मादर्थप्रतीतेरनुत्पत्तेः उत्पत्तौ वा द्वितीयादीनामनुच्चारणप्रसङ्गः । वर्णानां तु यौगपद्याभावोऽतः परस्परमनुग्राह्यानुग्राहकत्वायोगात् संभूयापि नार्थधियमादधते । योगभा० तत्त्ववै० १११७ । वर्णानां प्रत्येकं वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्रसङ्गात् । आनर्थक्ये तु प्रत्येकमुत्पत्तिपक्षे यौगपद्येनोत्पत्त्यभावात् । अभिव्यक्तिपक्षे तु क्रमेणैवाभिव्यक्त्या समुदायाभावात् एकस्मृत्युपारूढानां वाचकत्वे सरोरस इत्यादी अर्थप्रतिपत्त्यविशेषप्रसङ्गात् तद्व्यतिरिक्तः स्फोटो नादाभिव्यङ्गयो वाचकः । महाभा०प्र० पृ०१६ । २ वर्णातिरिक्तो वर्णाभिव्यङ्गयोऽर्थप्रत्यायको नित्यः शब्दः स्फोट इति तद्विदो वदन्ति । अत एव स्फुटयते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्गयः, स्फुटति स्फुटीभवत्यस्मादर्थ इति स्फोटोsर्थप्रत्यायक इति स्फोटशब्दार्थमुभयथा निराहुः । सर्वदर्शन० पृ०३०० । ३. द्र० पृ० १४५८०२/४ ग्रन्थिरयं नोपलब्धः मुद्रितन्यायमञ्जर्याम् । ५ अन्त्यवर्णेऽपि विज्ञाते पूर्वसंस्कारकारितम् । स्मरणं यौगपद्येन सर्वेष्वन्ये प्रचक्षते ॥ सर्वेषु चैतदर्थेषु मानसं सर्ववादिनाम् । इष्टं समुच्चयज्ञानं क्रमज्ञानेषु सत्स्वपि । श्लो०वा०स्फोट० ११२-११३ । अपरे तु संस्कारत्रयजन्यां वर्णस्वरूपां सङ्कलनात्मिकामिच्छन्तीत्याह--अन्त्यवर्णेऽपि विज्ञात इति । उम्बेकटीका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org