________________
का०पू०३१३, वि०पृ०३४२] न्यायमञ्जरीग्रन्थिभङ्गः
तस्य च व्यतिरिक्तत्वं यागादिक्रियाव्यतिरिक्तत्वम् । अपरित्यक्तपूर्वापरिभूतस्व भावं साध्यरूपम् ।
भवत्यादौ तहीति । भवत्यादौ हि प्रत्ययेन यो भवति प्रयोज्यस्तव्यापारोऽभिधीयते न तु यो भावयति तद्वयापार इति ।
विधिवृत्तपर्यालोचनयेति । अपुरुषार्थसाधने प्रवर्तयतोऽपि विधिः प्रवर्तकत्वविधिः । पुरुषार्थः तेन साध्यत्वेनापेक्ष्यमाणः सन्निहित एवापेक्ष्यते ।
ततस्तदवगतेरिति । ततस्तृतीयान्तात् ।
प्रत्ययोपसर्जनीभूत इति। "प्रकृति-प्रत्ययौ प्रत्यया[142A]र्थ सह ब्रूते' [ ] इति' प्रत्ययार्थस्य प्राधान्यात् प्रकृत्यर्थस्योपसर्जनत्वम् ।
'एतस्यैव रेवतीषु वारवन्तीयम्' [ताण्ड्यबा० १७.७.१] इत्यत्र वाक्ये रेवतीषु वारवन्तीयसामकरणाख्येतिकर्तव्यतोपात्ता प्रधानं यजिश्च ।
अग्न्या(ग्न्यन्वा)धानादिकयेति । 'ममाग्ने वो विहवेष्वस्तु' [ऋग्वेद ८. १२८] इत्यादिना मन्त्रेण क्रियमाणमग्नौ समिदाधानम[ग्न्यन्वा]धानं दर्शपूर्णमासयोः प्रारम्भे ।
अतिप्रसङ्गदोषेणेति । अज्ञातज्ञापने हि विधौ ‘ग्रामं भवान् लप्स्यते' इत्यादेः सामुद्रविद्याव्याख्यानस्यापि विधिवप्रसङ्गात् ।
शुक्लो होतेतिवत् । यथत्विजां मध्ये शुक्लगुणेन होता लक्ष्यते एवं स्वर्गकामनया पुरुषो लक्ष्यत इति । ..
यश्चैषः पर्यनुयोग इति । 'वाक्यान्तरे समर्थेऽपि किमर्थ विधिराश्रितः' [श्लो०वा० औत्पत्तिकसू० १२] इति भाट्ट पर्यनुयोगं सूचयति ।
शब्दस्य च ज्ञापकत्वादिति । चक्षुरादीनि ह्यगृहीतसङ्गतीनि प्रतीति जनयन्ति । अतः तानि कारकाणि बीजादिवन्न, धूमादिवज्ञापकानि, सङ्गतिग्रहानपे[142B] क्षणादिति ।
१ प्रत्ययार्थ सह ब्रतः प्रकृतिप्रत्ययौ सदा । तन्त्रवा०पू०३८०। २ यद् ज्ञापकं तत् ज्ञाप्ये प्रतिपन्न प्रतिबन्धमेव प्रतीतिमुत्पादयति यथा धमादि, ज्ञापकश्च शब्द इति । चक्षुरादीमा तु कारकत्वात् युक्त स्वार्थसम्बन्धग्रहणानपेक्षाणां तदुत्पादकत्वम् । स्वयं हि प्रतीयमानम् अप्रतीतार्थप्रतीतिहेतुझपकमुच्यते । तद्रूपता च शब्दादेरेवास्ति न चक्षुरादेः, अतः स एव प्रतिपनप्रतिबन्धं स्वार्थ गमयति । न्यायकुमु०पृ०५४१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org