________________
भट्टश्रीचक्रधरप्रणीतः [का पृ००३१४, वि०पृ० ३४३ अमिधाभावनेति' । यं कुर्वन्नभिधेयप्रतिपत्ति जनयेत् शब्दः सोऽभिधात्मको पापारोऽभिधाभावना। अभिधाभावनामित्यस्योत्तरमर्धम्- 'अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते' इति ।
नियोज्यविषयसमर्पकपदव्यापारो निविशत इति । नियोज्यविषयप्रतिपादकत्वं तद्वयापारः ।
इतिकर्तव्यतांश इति । यावद् ह्यर्थवादाः स्वार्थप्रतिपादनलक्षणे व्यापारे [न] प्रवर्तन्ते तावच्छूतमात्रेभ्यस्तेभ्यः प्रवृत्त्यभाव इति ।
न च विधेर्वाक्यार्थानन्वय इति । वाक्यार्थेन भावनया, साध्य साधनमितिकर्तव्यता च सम्बध्यते । न चैवंरूपता विधेरस्तीति ।
_ 'स्वव्यापारे हि पुरुषः' इत्यस्योत्तरमर्धम्– 'प्रेष्यस्तस्य च किंकर्मभावना. (नाs)स(श)त्रयात्मिका ।' किंकर्मकः स्वव्यापार इति ।
स्वच्छैव भावना विधिना स्पृश्यते, कुर्यादिति ।
अर्थसामर्थ्य]गम्य मिति । यथा 'सुवेणावद्यति' इत्यवदानं सुवेण क्रियमाणं द्रव्याणामेव क्रियते न मांसादीनाम् , तेन तेषां स्खण्डनस्य कर्तुमशक्यत्वात् ।
पदार्थाहितसंस्कारेति । पदार्थाहितानां संस्काराणां यश्चित्रो नानारूपः सङ्घातस्तज्जया ।
यस्तु व्यापार प्रेष[143A]रूप इति प्रेरणारूपः। 'वा'शब्दः समुच्चये ।
अर्थासंस्पर्शीति । अनुत्पन्नत्वेनासत्समत्वाद् व्यापारस्य तद्विषयत्वे शब्दस्यार्थासंस्पर्शित्वम् ।
सत्यपि गोवृन्दारकत्व इति । प्रशस्तो गौर्गोवृन्दारकः यथा गोवृन्दारकोऽपि वृषभो नासा भारमुद्वोढुमलम् । एवं वाक्षर्यायत्वाद् गोशब्दस्य लिङपि गौः, प्रमाणान्तरानवगम्यमानार्थप्रतिपादकत्वात् प्रशस्तस्वभावतः सोऽपि गोवृन्दारकः ।
विषयसमर्पणेनेति । प्रेरणा हि प्रेयं विषयं वाऽपेक्षत इत्यपेक्षितसमर्पणाद् गुणत्वम् ।
प्रेष्यते तु स इ यनेन प्रेषस्यानपह्नवनीयतामाह । __ निमन्त्रणादिष्विति । यस्याकरणात् प्रत्यवायस्तत्र नियोजनं निमन्त्रणम् । यस्य त्वकरणेऽपि प्रत्यवायो नास्ति तत्र नियोजनमामन्त्रणमिति । आदिग्रहणात् संस्कारपूर्वकं यत्र नियोजनं तत्राध्येषणम् ।
१ तन्त्रवा०२.१.१ । २ तन्त्रवा० २.१.१ । ३ मुद्रिते तु तन्त्रवार्तिके-'प्रेषेस्तस्य स्वरूपं च भावनांऽशत्रयात्मिका' इति पाठो वर्तते । १ प्रलोकवा वाक्याधि० ३३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org