________________
भट्टश्रीचक्रधरप्रणीतः [का०पृ०३०६, वि०पृ०१२३४ ननु कर्तुरवाच्यत्वे तद्गतायाः सङ्ख्यायाः कथं वाच्यत्वं सिद्धयति । नायं दोषः । क्रियाक्षेपलभ्यत्वात् कर्तृमात्रस्य, तद्गतानां त्वेकत्वद्वित्वादीनां क्रियाक्षेपलभ्यस्वात् तेषामेव वाच्यत्वं युक्तमनेनैवाभिप्रायेणाह- अलं चानया शास्त्रान्तरगर्भयेति ।
साक्षात् तत्सिद्धवेदनात् । साक्षात् तदर्थव्यापारं विना ।
न सा केनचिदिति । भावार्थवदन्योत्पाद्यत्वं कारकवच्चान्योत्पादकत्वं तस्या नास्तीत्यर्थः । किन्तु यद्वशात् फलस्य जन्यताव्यपदेशो भावार्थस्य च जनकता साऽसौ जननी।
, नविभज्य प्रदर्शयितुं शक्यते इति । प्रकृतिप्रत्ययाभ्यामुभाभ्यामपि प्रयोजकव्यापारस्यैकस्यैवाभिधानात् ।
स एव समुदायेनेति' । य एव पचतीत्यादौ प्रत्ययभागप्रतिपाद्यो व्यापारः स एवोभाभ्यां प्रकृतिप्रत्ययाभ्यां करोतीत्यनेन प्रतिपाद्यते [141A] ।
भवन्ति केचिद् भावार्था न कर्मशब्दा इति । ननु भावशब्देन भावनाऽभिप्रेता । भवतेय॑न्ताद् भाव्यतेऽनेनेति व्युत्पत्त्या परविकृतेन च भावो भवनं भूतिरित्यादिभिः स प्रत्याययितुं शक्यतेऽत एवमुदाहार्य भावयेत् कुर्यादिति । अत्राहुः-भावशब्दस्तावद् णिजन्ताद्भवतेः परविकृते भावनावाच्ये वा भवनभूतिशब्दौ तु प्रयोज्य व्यापारांशेन कथञ्चिद् भावार्थो स्याताम् । श्येनैकत्रिकादयः । श्येनः प्रसिद्धः, एकत्रिकेण यतेत्येकत्रिकाल्यो यागविशेषः एकस्यां तिसृषु चतसृषु यत्र स्तोत्राणि क्रियन्ते स एकत्रिक इति । अकर्मशब्दत्वं चैषां भावो भवनं भूतिरित्यादीनां कर्मविशेषवाचकत्वा. भावात् , निष्पायेन रूपेण भावनाया अनभिधानाद्वा। श्येनादयस्तु निष्कृष्टयागमात्रमाचक्षते न भावनामपि, यजिसामानाधिकरण्यं तेषामिति । प्राभाकगस्तु व्याचक्षते "कर्मशब्दा इत्येतद्विना भावार्था इत्युक्ते भावो भवनमित्यादिभ्योऽपि अन्योत्पादनमात्रप्रतिपादकेभ्यः क्रियाप्रतीतिः प्रसज्येत । भावार्था इत्येतत्परिहारेण च कर्मशब्दा इत्युक्त अन्योत्पादकत्वरहितसाध्यमात्रप्रतिपादकेभ्यो[141B]ऽपि श्येनादिशब्देभ्यः क्रियाप्रतीतिप्रसङ्गः । उभयोच्चारणे तु अन्योत्पादकत्वं पूर्वापरीभावस्य साध्यरूपत्वं येभ्योऽवगम्य[ते] तेभ्यो यजेतेत्यादिभ्यः क्रिया प्रतीयत इति सिद्धं भवति । एकैकपदोच्चारणे हि विवक्षितार्थाऽसिद्धिर्भावो भवनं भूतिरित्यादिना भाष्यकृता दर्शिता च स्वयं च व्याख्यातम्-'यज्याद्यर्थश्चातोऽवगम्यते भावयेदिति च"" [शाबरभा० २.१.१] इति।
१ मुद्रितन्यायमञ्जर्या' तु नोपलभ्यते । २ शाबरभा०२.१.१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org