________________
का०पृ०३०६, वि०पृ०३३४] न्यायमञ्जरीप्रन्थिभङ्गः
१४३ स्वामी सन्कर्तेति । यतस्त्वमस्य कर्मणः स्वामी ततस्त्वयेदं कार्यमित्यधिकारावस्थोत्तरकालं कर्जवस्थाया उल्लासात् ।
अनुपादेयविशेषणेति । यो हि यागसाधनत्वेनोपादातुं शक्यते तद्विशिष्टः कर्ता भवति । यथा 'अभिक्रामन् जुहोति' 'लोहितोष्णीषाः प्रचरन्ति' इति । यत्तु यागसाधनत्वेनोपादातुमाहतुं न शक्यते तद्विशिष्टोऽधिकारी । यथा यावज्जीवं जुहुया. दिति । न हि जीवन पुरुषप्रयत्नेन यागसाधनत्वेनोपादातुं शक्यते, स्वतः सिद्धं तु तन्निमित्तत्वेनाधिकारिणं विशिनष्टि । कारकत्वानुगुणेति । विशेषणसम्बन्धे हि विशिष्टः कर्ता भवति । विशेषणेन सम्बन्ध उपादेयत्वे सति विशेषणस्य भवति; यतो लोहितमुष्णीषमुपाददतेऽतो लोहितोष्णीषा भवन्ति । उपादेयत्वाभावात् तु विशेषणविशेष्यसम्ब' न्धाभावाद् विशिष्टस्य कर्तुरप्यभाव इत्यनुपादेयस्य विशेषणस्य कारक[140A]त्वाननुगुण्यम् । अधिकृतस्य कर्तृत्वमिति । यतः स्वर्गकामोऽत्राधिकारी अतः स्वर्गकामेनेदं कर्तव्यमित्यधिकारोत्तरकालमार्थ कर्तृत्वम् । यदि ह्यसौ न करोति तत्तद्विषयोऽस्याधिकारो निष्फल एव स्यात् । न कर्तुरधिकारः। स्वर्गकामकर्तृको यो यागस्तत्र स्वर्गकाम एवाधिकृत इति योग्यतालक्षणोऽधिकार आर्थः । तदाह-असौ स्वर्गकामकर्तृको भवति यदि तत्र स्वर्गकामोऽधिक्रियते । 'तवैतत् कर्म' इति आर्थमधिकृतत्वमिति । एतच्च न युक्तम् । यदि स्वर्गकामस्य कर्तृत्वेनान्वयः स्यात् स्यादयं पक्षः, स तु न सम्भवतीति तात्पर्यम् । कर्माण्यपीति' । जैमिनिराचार्यः कर्माण्यपि शेषभूतानि मन्यते । क तेषां शेषत्वं तदाह-फलार्थत्वादिति ।
प्रत्ययार्थः कश्चिदिति । यागविषयः प्रयोजकव्यापारो भावनाख्यः । साध्यसाधनसम्बन्धापरित्यागेनेति । यजेत यागेन स्वर्ग भावयेत् । यतो यागात् स्वर्गों भवति अतो यागविशिष्टां भावनां कुर्यादिति ।
फलं च पुरुषार्थत्वात् पुरुषश्च कर्मार्थत्वादिति जैमिनिसूत्रे पूर्वसूत्रद्वयानन्तरभाविनी स्पष्टे ।
औदुम्बरीति । उदुम्बराख्यवृक्षविशेषप्रकृतिका यष्टिर्यजमानमाना यां स्पृष्ट्वोद्गाता सामानि गायति ।
१ मी० सू० ३.१.३.४ । २ मी०सू० ३.१.३.५। ३ मी०सू० ३ .१.३.६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org