________________
१४२
भट्टश्रीचक्रधरप्रणीतः [का पृ०३०३. वि०पृ० ३३१ त्रैलोक्ये सर्वभूतानां दुष्प्रापं यदुदाहृतम् । तच्चास्य भवति प्राप्यं प्रथमं योगिनो बलम् ।। विशिष्टिसिद्धेः प्रादुर्भावाद्वा । तथा चाहनिष्प्रपञ्चं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः । तामेव लभते तुष्टि या न शक्या ह्यतोऽन्यथा ॥ समाहितः परे तत्त्वे क्षीणकामो [भवत्यतः] ।
[सर्वतः सुखमन्वेति राहुश्चन्द्रमसं यथा ॥ इत्यादि ॥ तमेव परं पुरुषार्थमिति । अपहतपाप्मत्वादिविशिष्टात्मसाक्षात्कार एव परः पुरुषार्थः । यच्छतिः ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणावतिष्ठते' इति [छान्दोग्यउप० ८.१२.३] द्रव्यगुणसंस्कारेषु वारिरिति'। बादरिराचार्यो द्रव्यगुणसंस्कारेषु शेषभावं पारार्थ्य मेने न यागफल[पुरुषेषु ।] [बी][139A]ह्यादि द्रव्यं क्रियानिवर्तनद्वारेण तच्छेषम्, द्रव्यावच्छेदकत्वेन च शौक्ल्यादिगुणः क्रियाशेषः अवघातश्च संस्कारः क्रियायोग्यतां.... [न हि क्रियाया अन्यशेषत्वम् ] न क्रिययाऽन्यत् साध्यते । न ह्येवं वचोऽस्ति यागात् स्वर्गः अपि तु स्वर्गकामस्य याग इति ।
तस्मिंस्तु कृते स्वयमेवेति बादर्यधिकरणे भाष्यम् । स्वयमेव भवति .... स्ववानिति न्यायान्न पुनरेतद्वाक्यश्रुतस्वर्गकामपदसामर्थ्यादिति ।
स्वर्गकामपदस्यान्वयो दुरुपपाद इति वक्ष्यमाणाभिप्रायेणाह ।
द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः इत्यादि पूर्वपक्षसूत्रम् । द्रव्याणां सिद्धिरूपाणां कर्मणा साध्येन सम्बन्धो यदा तदा गुणत्वेनाङ्गत्वेनैव सम्बन्धो दृष्टो द्रव्यं च स्वर्ग इति । कामनाऽपि द्रव्याहरणाङ्गत्वादिति । .... आहाँ नेष्यते तत् कथमाहत पार्येतेति । तेन स्वर्गे चन्दनादौ यागार्थमाहर्तु कामो यस्य स स्वर्गकाम इति ।
अथादृष्टेनैव द्वारेणेति । यद्यपि [प्रीतिवचनः] स्वर्गशब्दस्तथापि तदिच्छा यागस्यादृष्टमुपकारं करिष्यति । रथन्तरप्रस्तावे समुद्रमनोध्यानवत् ।
इत्थं च क्रियासाधनेति । क्रियायाः साधनं कर्तारं ....श[139B]क्नोति तदेत्यर्थः ।
१ मी०सू० ३.१.३। २ शाबरभा० ३.१.३। ३ मी० सू० ६.१.१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org