________________
भट्टश्रीचक्रधरप्रणीतः [ का०पू०२८७, वि० पृ०३१५
तदुल्लिख्यमाने हि विषयभेद इति । ततो भेदाप्रतिभासादेव विषयाभेदः, तस्माच्च विकल्पैक्यमित्यतः 'केन विषयाणामैक्यं गृह्यते' इति न वाच्यम् । मिश्री - करोत्येकतया व्यवस्थापयति । कथम् ? यथैव विषयैक्याद् विकल्पानामैक्यं तथा दर्शनानामपि । दृश्याध्यवसायेन विकल्पानां प्रवृत्तेरध्यवसायापेक्षया तद्विषयस्याप्यैक्यम् । तदेवाह-दर्शनोपारूढस्य भेदस्याग्रहणादिति । दर्शनविषयस्य सर्वस्यैव विकल्पैरेकतयाऽध्य[129A] वसीयमानत्वाद् दृश्य भेदनिबन्धनस्य दर्शनभेदस्याग्रहणादभेद एवावतिष्ठत इत्यर्थः ।
१३६
अवास्तवत्वे युक्त्यभावाद् । भवद्युक्तीनां चायुक्तत्वादिति भावः । कार्यैक्यादित्युत्तरमिति । कार्यैक्यादेककार्यकारित्वाद् । विकल्पैक्यमेव कार्यैक्यमिति । योऽयं विषयाभेदेन विकल्पोत्पादस्तदेव कार्यैक्यम् ।
विचित्र सहकार्यादीति । अयं भावः । न शक्तिः काचिदभिन्ना सम्भवति, अभावप्रसङ्गादिति । अतो भिन्ना साऽभ्युपेया । भिन्ना च स्वरूपसह का रिव्यतिरेकेण न काचिदस्ति, पूर्वमेव निराकृतत्वात् । तत्र स्वरूपशक्तेरभेदेऽपि सहकारिशक्तयो भिन्नाः, ता हावच्छेदका धर्माः । येन चावच्छेदकेन [ धर्मेण ] सह स्वरूपशक्तिः स्वविषयज्ञानोत्पादिका तस्यावच्छेदकधर्मान्तरभिन्नत्वात् [प्रस्तुतधर्म] विशिष्टधर्मिज्ञानोदयकाले कथं धर्मान्तरविशिष्टधर्मिज्ञानोदयप्रसङ्गः ।
इत्थं चान्यापोह इति निषेधात्मनि बाह्य इति चिरन्तनबौद्धदृष्ट्या | शुक्तिकारजतज्ञानस्य विषयाभावेऽप्युत्पद्यमानस्य तर्हि कथं सम्भव इत्याशक्याह - वासना विषयज्ञानेति । तथोदिता उपरञ्जकत्वे [129B] ....'
. अतो व्यक्तौ क्रियाया अभावादाकृतिः शब्दार्थ इति भाष्य 1 यत इतीवार्थाश्रयणेन तस्या एवान्वयो न व्यक्तेर्यतः संस्थान विशिष्ट परिणामाभावात् साक्षान्मुख्याभिव्यक्तिर्मा भूज्जातेः । सं व्यञ्जको नाप्यारम्भक इति नोपचारतोऽपि व्यक्त्यर्थसम्भव इ... [आकृ] तेरपि भविष्यतीति । विशिष्टसन्निवेशवत्या आकृतेः । सन्निवेशेऽपि [131A] .... दभिन्नत्वेन तयोः परस्परमप्यभेदात् । व्यावृत्तिरपि बाह्या कश्चिदित्यादिको योऽयमुत्प्रेक्षितो धर्मोत्तरेण । यदि पृ तः तत्र तस्मिन्ननुत्पन्ने विकल्पे सति कथं प्रवृत्तिर्विषये . "प्रयोगचोदनाभावादर्थे१. १३० पत्रं नोपलभ्यते । २. १३१ पत्रस्य अधिक शो न लब्धः ।
Jain Education International
२
....
....
For Private & Personal Use Only
***
www.jainelibrary.org