________________
का०पृ०२९६, वि०पृ०३२४] न्यायमञ्जरीप्रन्थिभङ्गः
१३७ कत्वमविभागात्" [मी०सू०१.३.९.३०] इत्यत्र .... शब्दः पूर्वपक्षं व्यावर्तयति । आकृतिः शब्दार्थः । कुतः ? श्येनचितं'.... [131B]
विशेषावगतिदर्शनादेकत्वादिवल्लिङ्गमपि विभक्त्यर्थ एवेति मन्यन्ते । एतच्च तद्वच्च लिङ्गमित्य .... ।
ननु पुंसीवेति । आत्मनीव ।
अभिधानवैशसं स्यादिति । किश्चिदभिदधाति ततोऽर्थान्तरं लक्षयतीत्या.... विना नोपपद्यतेऽतः सामान्यप्रतीत्यन्यथानुपपत्त्या व्यक्तिप्रतीतिरिति क्रमं जनो मन्यते, [न तु क्रमि]कत्वेन दृष्टेत्याह-संवेदनं ज्ञानं ननयन्ती तामेव पश्याम इति ।
न च भारस्य मौरवमुभयाभिधाने यदुक्तम् – “[सच्छब्दः सत्ता प्रवृत्तिनिमित्तमा]श्रित्य तद्वति द्रव्ये प्रवृत्तः शुक्लशब्दश्च गुणं प्रवृत्तिनिमित्तमाश्रित्य तत्रैवेति मुख्यया वृत्या सामानाधिकरण्यं भवति]” [ ]।
तद्वतो नास्वतन्त्रत्वादिति । “[तद्वतो नास्वतन्त्रत्वादुपचारादसम्भवात् । वृत्तिरूपस्य भिन्नत्वाद् राज्ञि भृत्योपचारवत्" ॥ [प्रमाणसमु०अपोह० ४]
इति दिग्नागश्लोकः । अत्र न जातिशब्दो [132A] योगजात्योर्वा भेदार्थैरपृथक्श्रुतै रित्यतो वाचक इति सम्बध्यते । तेनायमर्थः—जातिशब्दः सदादिस्तद्वतो न वाचकः । [सच्छब्दो जातिस्वरूपोपसर्जन] द्रव्यमाह न साक्षात् ; अतस्तस्य सत्ता प्रतिपादयतो द्रव्यवाचकत्वम् , न साक्षात् ; ततोऽन्यप्रतिपत्तौ परतन्त्रीभूतत्वाद् द्रव्यप्रतिपत्तौ स्वातन्त्र्याभावाद् द्रव्यगतघटादिभेदानाक्षेपात् न 'सन् ] घटः' इति । शब्दो हि यान् विशेषान् आक्षेप्तुं न शक्नोति नासौ तद्विशेषवाचिभिः शब्दान्तरैः
१ श्येनचितं चिन्वीत इति वचनमाकृतौ संभवति यद्याकृत्यर्थः श्येनशब्दः । व्यक्तिवचने तु न चयनेन श्येन व्यक्तिरुत्पादयितु शक्यत इत्यशक्यार्थवचनादनर्थकः । तस्मादाकृतिवचनः । ननु श्येन व्यक्तिभिश्चयनमनुष्ठास्यते । म साधकतमः श्येनशब्दार्थः, ईप्सिततमो ह्यसौ श्येनशब्देन निर्दिश्यते । अतश्चयनेन श्येनो निर्वर्तयितव्यः । स आकृतिवचनत्वेऽवकल्प्यते। नाऽऽकृतिः शब्दार्थः । कुतः ? किया न संभवेदाकृतौ शब्दार्थे, वोहीन् प्रोक्षति इति । तथा न व्यक्तिः शब्दार्थः, कियैव न संभवेद् व्यक्तः शब्दार्थत्वे, श्येनचितं चिन्वीत इति । यदण्युच्येत व्रीहीन् प्रोक्षति इति व्यक्तिलक्षणार्थाऽऽकृतिरिति, शक्यमन्यत्रापि श्येनचितं चिन्वीत इति वदितुमाकृतिलक्षणार्था व्यक्तिरिति । कि पुनरत्र ज्यायः । आकृतिः शब्दार्थ इति । यदि व्यक्तिः शब्दार्थो भवेत् व्यक्त्यन्तरे न प्रयुज्येत । शाबरभा०पृ०३०२-३०३। २ न जातिशब्दो मेदानामानन्त्याद् व्यभिचारतः । वाचको योगजात्योर्वा भेदार्थैर पृथक्श्रुतैः ॥५॥ प्रमाणसमु० अपोहः ।
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org