________________
का०पृ०२८७, वि०पृ० ३१४ ]
न्यायमञ्जरीप्रन्थिभङ्गः
१३५
विच्छिन्न सिक्थलक्षणेति । विच्छिन्नानां भिन्नानां सिक्थानां कणानां यल्लक्षणमितरस्माद् व्यावृत्तो धर्मः ।
समानवृत्तिसापेक्षमिति । कथं तहि तद्वेदनमित्याह - तत्र सन्निहितत्वादिति । उभयत्रापि साक्ष्यमिति । अनुवृत्तौ व्यावृत्तौ च, गौरयमित्युभयरूपाणां तेषां समुत्पादात् ‘अयम्' इत्यत्र विशेषस्यापि प्रतिभासात् । यौ ब्रूतस्त्वेकरूपत्वमिति । यौ वेदान्तवादि - शाक्यौ । वेदान्तवादिनो हि सामान्यात्मकमेव वस्त्विच्छन्ति, शाक्यास्तु विशेषात्मकमिति ।
यथा कल्माषवर्णस्येति । शबलवर्णस्य । यथेष्टं वर्णनिग्रहो निष्कृष्टस्य वर्णस्य ग्रहणम् ।
परिहृतमाचार्यै: “निष्ठासम्बन्धयोरेककालत्वात् " [व्योमवती पृ० ६९०] इत्यादि वदद्भिः |
ये चेह वृत्ती इति । स्रजि सूत्रं हि व्यासज्य प्रतिपुष्पमेकदेशेन वर्तमानं दृष्टं भूतानां चालेख्यगतानां कण्ठे यो गुणः स्रग्दामादिः स प्रत्येकं सर्वात्मना वर्तमान उपलब्धः ।
का ते व्यसनसन्ततिः । यामभ्यधाद्भवान् -
न याति न च तत्रासीदस्ति पश्चान्न चांशवत् ।
जहाति पू[128B ] नाधारमहो व्यसनसन्ततिः ॥ इति || [ प्र०वा०३.१५१] विशेषेभ्यो व्यतिरिक्ताऽव्यतिरिक्ता वेति । व्यतिरेके जातिरेवोक्ता, अन्यतिरेके तु जातिप्रत्ययस्य निर्विषयत्वम् । नित्याऽनित्या वेति । एकाऽनेका वेत्यर्थः । नित्यत्वे हि सर्वत्रैकत्वमनित्य [त्वे ] तु प्रतिव्यक्त्यन्यत्वादनेकत्वम् । एका चेज्जातिरेव । अथानेका, एकाकारप्रत्ययस्य निर्विषयत्वम् । [तदाश्रिता स्वतन्त्रा वा ] । तदाश्रितत्वपक्षे जातिरेव नामान्तरेणोक्ता | स्वातन्त्र्यपक्षे विषयनियमेन प्रत्ययानुत्पत्तिप्रसङ्गः, गव्यनाश्रिता चेत् सा शक्तिः कथं तत्रैव प्रत्ययविशेषं जनयेत् ।
एकीकरणेन वेति । एकाकारबुद्धिजनकत्वं हि सर्वेषां समानम् ।
१ लिपिकार प्रमादोऽयं यदत्र तेन भङ्गो न लिखितः । २ श्लो० वा० आकृतिवाद । ५७ ३ कोऽयमाचार्यो नाम ? व्योमशिवाचार्या एव जयन्ताभिमता इति मे मतम् । निष्ठासम्बन्धयोरेककालत्वात् इति बचनं व्योमवत्यामुपलब्धं तच्चास्य पुष्टिं विदधाति । अव्यपदेश्य पदविवेचनसन्दर्भेऽपि मया एतन्निर्दिष्टम् द्र० पृ०४४ टि०१ । ४ तुलना - या चाऽवयवशो वृत्तिः स्रसूत्रादिषु दृश्यते । भूतकण्ठगुणादेश्च प्रतिपिण्डं समाप्तितः । श्लो० वा० वनवाद ३५ ॥ ५ श्लो०वा० आकृतिवाद २४ |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org