________________
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०२६०, वि० पृ०२८५
१
. ब्राह्मणा वेति संशयरूपमज्ञानम्, अब्राह्मणोऽप्यनेन ब्राह्मणो भवतीति स्तुतिः । को ह वै तद्वेदेति यदुच्यते तद् दृष्टफलं कर्म स्तोतुमुच्यते । 'दीक्षितशालायामुपभद्रादिप्रचारकाले 'दिक्ष्वतीकाशान् कुर्यात्' इति श्रूयते । अतीकाशा धूमनिर्गमनविवरप्रदेशाः । किमिति कुर्यादित्याकाङ्क्षायां वाक्यशेषः 'को ह वै तद्वेद' । ' को हि तदन्यत् स्वर्गादि फलं जानाति यदमुष्मिंलो (ल्लो) के भवति वा न वा' इति । एतत्त्वतीकाशकरणं दृष्टफलमेव, दृष्टेन धूमनिर्गमनलक्षणेन फलेन फल [वत् ? ]त्वादस्येति स्तुतिः ।
१२०
विद्यामशंसा गर्गत्रिरात्रब्राह्मणज्ञानस्तुतिः । सर्वत्वं प्रकृतापेक्षमिति । पूर्णा - हुत्या सर्वान् कामानवाप्नोति । सर्वकामफलस्य दर्शपूर्णमासादिकर्म समूहस्य निमित्त आहवनीये प्राप्यमाणे पूर्णाहुत्या सर्वान् कामान् अवाप्नोतीति स्तुतिः । एवं तहिं अन्तर्घानादिफला [111A ]नामपि कर्मणामाहवनीयो निमित्तं प्राप्त इत्याह प्रकृतापेक्ष - मिति । प्रकृतानि यान्यग्निहोत्रादिकर्माणि तेषां निमित्तं पूर्णाहुत्याऽऽहवनीयः प्राप्यते, तस्मिन् प्राप्ते प्रस्तुतानि कर्माण्यनुष्ठीयन्ते अग्निहोत्रादिकानि ततस्तत्तत्फलमिति । दृष्टश्च प्रकृतापेक्षः सर्वशब्दः 'सर्वमनेन भुक्तम्' इतिवत् । अश्वमेधाध्ययनेऽपीति आस्तां तावदश्वमेधानुष्ठानं योऽपि वेद सोऽपि मृत्युं तरतीत्यश्वमेधानुष्ठानस्यैव स्तुतिः ।
अब्जने सति घृतादिना । तत्कार्यकारित्वाद् यज्ञनिर्वर्तकत्वाद् यजमानकार्यकारित्वं प्रस्तरस्य । ऐन्द्रया गार्हपत्योपस्थानमधिरुद्धमिति इन्द्रप्रतिपादकानां पदानां 'कदाचन स्तरी रसि नेन्द्र सश्चसि दाशुषे ' [ऋग्वेद ८.५१] इत्यस्यामैन्द्रयामृचि ऐश्वर्यादियोगाद् गौण्या वृत्त्या गार्हपत्येऽपि प्रवृत्तिरविरुद्धा | परकृतिपुराकल्पस्वरूपाः पूर्वं दर्शिताः, यथा चात्र [ 111B] दाल्भ्य आह माषानेव मह्यं पचतेति परकृतिरूपोऽर्थवादः, तस्मादारण्यानेवाश्नीयादित्येतद् विधिशेषैः | उल्मुकैर्ह स्म पुरा समाजग्मुरिति च पुराकल्परूपोऽर्थवादैः । तस्माद् गृहपतेरेव निदध्या ( निर्मथ्या ! ) ग्निषु स पचन् पचमि (चेदि ?) त्येतच्छेषः । विशिष्टनामधेयतया ज्ञातकर्तृक कर्मसम्बद्धोऽर्थवादः परकृतिः, अविज्ञातकर्तृकर्मसम्बद्धस्तु पुराकल्प इर्ति ।
४
१ गोपथब्रा० पूर्वभा० ५.२१. २ मी०सु० १.२.१.१५ । ३ सर्वत्वमाधिकारिकम् । मी०सू० १.२.१.१६ । भसर्वेषु सर्ववचनमधिकृतापेक्षम् । शाबरभा० । शाबरभा० ६.७.१२.२६ । ५ शाबरभा० ६. ७.१२.३० । ६ शाबरभा० ६.७.१२.२६ । ७ शाबरभा० ६.७.१२.३० । अन्यप्रकारेण परकृतिपुराकल्पयोर्भेदः प्रदर्शितः तयथा - एकपुरुषकर्तृकमुपाख्यानं परकृतिः, बहुकर्तृकं पुराकल्पः ।
८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org