________________
का०पृ०२६०, वि.पृ०२८४] न्यायमञ्जरीग्रन्थिमङ्गः ।
११९ तिकस्येति सस्तुतिकविषयप्रतीतावङ्गमर्थवादाः । दारा इत्यादौ बहुत्ववद्वा प्रतीत्यङ्गबहुत्वयुक्तं द्रव्यं प्रतीयते केवलम् , कार्ययोगः पुनरेकस्यैव; एवं सस्तुतिको विषयः प्रतीयत एव, अनुष्ठीयते तु शुद्ध एवेति । अत एव प्रमाणोपयोगित्वमिति । शब्दतः प्रतिपन्नाऽपि स्तुतिः प्रमाणस्य लिङादेः प्रत्ययस्य कर्तव्यतावबोधं प्रति साहाय्यकरणात् प्रमाणोपयोगिनी । अत एव प्राभाकरा वेदोऽर्थवादा न तु वैदिकाः इत्याहुः; वेदोऽवबोधका न वैदिकाः प्रमेया इत्यर्थः । न प्रमेयोपयोगित्वम् । प्रमेयं तादृगेव स्तुतं चास्तुतं चेति । स्वानुभवसाक्षिक इति । स्तुतिवाक्यमेव विधिवाक्यम् , स्तुतित एव विव्यर्थावगमात् । न तत्रान्यस्य विधिवाक्यस्य कल्पनमुपयुज्यत इत्यनुभवसाक्षिकमेतत् । यद् विधिवाक्यात् प्रतीयते तत् स्तुतिपदेभ्योऽपि प्रतीयत इत्यत्रानुभवः साक्षी। तथापि केचित् कल्पनमिच्छन्ति । यथा 'यो ब्राह्मणायावगूरेत् तं शतेन यातयात्' [तै०सं० २.६.१०.२.] [109A] इत्यर्थवादाद् ब्राह्मणावगूरणं न कर्तव्यमिति निषेधविधिवाक्यकल्पनम् ।
आदित्यः मायणीयश्चरुरिति । प्रयन्ति प्रारभन्तेऽनेन यज्ञमिति प्रायणीयोऽदितिदेवताकश्चरुः । दर्शपूर्णमासकर्मसम्बद्धस्य होमिकस्य वह्नेः कर्मसमूहस्योपस्थानात् किं कथं कर्तव्यमिति कर्मक्रमाद्यनवधारणरूपो यो भ्रमः सोऽनेन चरुणा निवर्त्यते, अवकास(श)दानात् । अत्र प्रवृत्त्या हि अवकाशं लभन्ते 'इदं कृत्वा इदं क्रियते' इति । [यथा दिङ्मोहेति] दिङ्मोह इव दिङ्मोहः, यथा दिङ्मोहे सति न कचित् प्रवर्तितुं शक्यत एवं कर्मक्रमाद्यनवधारणेऽपीति । अपि दिङ्मोहस्य किं पुनः दिङ्मोहस्येत्यर्थः ।
वृत्तान्तज्ञानं पुरैवमासीदिति ।
यस्त्वरुदति रुद्र इति । अरुदति प्रमाणान्तरादनुपलभ्यमानरोदन इत्यर्थः । अनश्रुपभवेऽपीति । प्रमाणान्तराद् रजताकाराद् रजतप्रभवदर्शनात् ।
एवं स्तेनं मन इनि । सोममाने श्रूयते 'हिरण्यं हस्ते भवत्यथ गृह्णाति' इति हिरण्यं हस्ते गृहीत्वाऽथ सोमं मातुं गृह्णातीत्यर्थः । ननु अहिरण्यहस्त एव कस्मान्न गृह्णाति तदाह-रतेनं मनोऽनृतवादिनी वागिति । हिरण्यहस्तेन यत् कृतं तत् सत्यं न मनसा वाचा वेति हिरण्यस्तुत्यर्थ तयोर्निन्दा[109B] .... ।
१ ताडनार्थ दण्डोद्यमोऽवगोरणमिति खण्डदेवाशयः। अवज्ञामात्रमिति माधवाशयः । २ शाबरभा० १.२.१.१० । ३ शाबरभा० १. २. १. ११.१ ४ ११० पत्रं मोपलब्धम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org