________________
११८
भट्टश्रीचक्रधरप्रणीतः का०पृ०२५६, वि०पृ०२८० सोऽरोदीदिति' । स [107B]............... ......... उदखिदत् उदहरत् । प्रागृह्णात् प्राक्षिपत् । तूपरः शृङ्गरहितः पशुः । [देवयजनेति] देवा इज्यन्ते यस्मिंस्तद् यज्ञस्थानमस्मिन्नस्माभिर्यष्टव्यमित्यध्यवसाय निश्चित्य । तथात्वनिश्चयाभावादिति । रोदनादि हि प्रमाणान्तरग्रहणयोग्य वस्तु, सिद्धत्वात् ; सिद्धं हि वस्तु लोके प्रमाणान्तरग्राह्यमेव 'राजा याति'वत् शब्देन प्रतिपाद्यमानं दृष्टम, अतो वेदेऽपि तथैव भवितुमर्हति । न च प्रमाणान्तरेण रुद्रादिरोदनग्रहणसम्भवः । रोदनस्य ग्रहणाभावादेव प्रमाणान्तरविरुद्धत्वम् । वपोखेदनादीनां तु विपर्ययग्रहणात् ।
को ह वै तद्वदेति । को वै तद्वेद, नैव कश्चिज्जानाति परलोके फलमस्ति न वेति ।
गर्गत्रिरात्रब्राह्मणमिति । गर्गत्रिरात्राख्यस्याहीनस्य क्रतोः प्रतिपादकं ब्राह्म[108A]णं गर्गत्रिरात्रव्राह्मणम् ।।
आधानान्ते होमविशेषः पूर्णाहुतिः । यश्चैवं वेद यश्चाश्वमेधमन्त्रब्राह्मणार्थ जानाति ।
न पृथिव्यामग्निरिति । अग्न्याधारभूतानामिष्टकानां विशिष्टेन सन्निवेशेन स्थापनमग्निचयनम् । तासामाधारभूतो दर्भ(र्भः) प्रस्तरणम् ।
अग्निहोत्रं जुहोति । केन द्रव्येणेत्यपेक्षायामाह-पयसाऽग्निहोत्रमिति । का च तत्र देवतेत्ययाह-यदग्नये चेति । व्रीहीन् अवहन्तीति । दृष्टेतिकर्तव्यतातण्डुलनिष्पत्त्यर्थमपेक्षणात् । प्रोक्षणं तदृष्टोपकारार्थमनपेक्षणाददृष्टेतिकर्तव्यता ।
केषाश्चिन्मते मीमांसकानां ।।
[वायव्यमिति) वायुमेव स्वेन भागधेयेनोपधावति वायवे देयो यः पशुः स वायोः स्वं भागधेयम् , तेन वायुपधावति उपसर्पति स्वाभिमुखं करोति । क्रियया सम्बन्धः द्रव्यदेवतादिः । एवमन्तो विध्युद्देशः । विधिरनुबन्धद्वयानुबद्ध उद्दिश्यते येन ।
अङ्गविधिवत् । अङ्गविधयः प्रयाजादिविधयः । प्रती[108B]त्यङ्गत्व मिति । केवलाद् विध्युद्देशात् स्तुतिरहितस्य विषयस्य प्रतीतिः सार्थवादकात्तु सस्तु
१ तै०सं०१.५.१ । २ पत्रं खण्डतमस्ति । ३ तै० सं० २.१. । । तै सं० ६१.५. । ५ तै०सं० ७.२.२ (शाबरभाष्ये-१.२.२. पृ.१०-उद्धृतम् ) ६ ते०सं० २.११ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org