________________
का० पृ०२६२, वि० पृ०२८७]
न्यायमज्जरीग्रन्थिभङ्गः
१२१
प्रतितिष्ठन्ति ह वेति । त्रयस्त्रिंशद्रात्रमुपेयुरित्येतावन्मात्रं श्रूयते, किंकाम इति तु न श्रूयते । फलमात्रेयो निर्देशादिति' । 'प्रतितिष्ठन्ति ह वा' इत्यादि किं फलार्थवादमाश्रमुत फलविधिरिति संशये फलार्थवादमात्रमित्यत्र पूर्वपक्षे सूत्रम् "ऋतौ फलार्थवादङ्गवत् काष्र्णाजिनिः' इति [मी०सू० ४.३.८.१७ ] क्रतावस्मिन् रात्रिसत्रे फलमर्थवादतया कार्ष्णाजिनिराचार्यो मेने, यथा यस्य खादिरः स्रुवो भवति च्छन्दसामेव सरसेनावद्यतीत्यत्राङ्गविधावर्थवादमात्रं फलनिर्देशः । ततः सिद्धान्तसूत्रं 'फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्' इति [मी०सू० ४.३.८.१८] । आत्रेय आचार्यः । फलविधिमेव मन्यते सः । [112A] फलं ह्यवश्यं कल्प्यं तच्च निर्दिष्टमेव, अश्रुतौ ह्यनुमानं कल्पना भवतीति । अत्र चार्थवादविचारे पूर्वपक्षावस्थायां सोऽरोदीदित्याचा उदाहृताः, सिद्धान्ते तु वायुर्वै क्षेपिष्ठेत्यादयः, तत्र कोऽभिप्रायः । उच्यते । तेषु स्वार्था - सत्यत्वाशङ्का विद्यते, अमीषु तु स्वार्थासत्यत्वाशङ्काया अभावः । एषां चैकवाक्यत्वं विधिना साधयितुं पारितं तदनेनैव न्यायेन तेषामपि सेत्स्यतीति ।
किमर्थप्रकाशनद्वारेणेति । प्रयोगकाले योऽयं मन्त्राणां पाठः स किं प्रयोज्यान् पदार्थान् प्रकाशयितुं तेषां स्मरणाय उतादृष्टार्थमुच्चारणमात्रमिति । उरुप्रथा उरु प्रथस्व । त्वं पुरोडाश उरुप्रथाः उरु कृत्वा प्रथस्व इति । उरुप्रथाः प्रथः शब्दः सान्तः । अत उरु विस्तीर्ण कृत्वा प्रथस्व विस्तारं भजेति । प्रथयति पिण्डरूपं सन्तमपूपरूपं सम्पादयति । अग्नीदग्नीन् विहरेति मन्त्रेणाग्नीघोऽग्निविहरणं कर्तव्यं प्रकाश्यं, तच्चाग्निविहरणमसावनेन वचनेनाप्रकाशितमपि कर्मपाठकमवशादेव जानन् करोति । अस्मिन् ह्यवधौतस्या [112B] ग्निविहरणं पठ्यते ।
ग्रहैकत्वप्रतीतिवदिति । 'ग्रहं सम्माष्टि' [
] इत्यत्र ग्रहं निर्दिश्य सम्मार्गों विधीयते । निर्देशस्तु वचनान्तरनिर्ज्ञातस्य भवति, वचनान्तरेण च नवसंख्योऽसौ विहित इत्येकत्वाविवक्षा" । सोमाव सेकः सोम ( मा) वलेपः । अपेक्ष्यमाणश्चेति । यथा बर्हिर्देवसदनमित्यस्य द्रव्यप्रकाशनं योऽर्थः स विधिनाऽपेक्ष्यते ।
सर्वस्य वेदस्याविवक्षितार्थत्वं स्यादिति । 'ननु कथमविवक्षितार्थत्वं, स्वाध्यायाध्ययनविधेः ‘‘स्वाध्यायोऽध्येतव्यः" इत्यस्यार्थज्ञानपरत्वादित्याह - अक्षरग्रहणमा
१ मी०सू० ४.३.८.१८ । २ अथेदानीं किं विवक्षितवचना मन्त्रा उताविवक्षितवचनाः । किमर्थ प्रकाशनेन यागस्योपकुर्वन्ति, उतोच्चारणमात्रेणेति । शाबरभा० १.२.४. ३१ । ३ य०वा०सं०] १.२ । ४ शतपथब्रा० ४.२.४.११, आप० श्र०सू० १२. १७.२० । ५ शाबरभा० ३.१.७.१३-१५ ।
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org