________________
का०पृ०२३४, वि०पृ०२५६] न्यायमञ्जरीग्रन्थिमनः सभ्यावसथा(थ्या)भ्यां सह त्रेतया। वेदाधिकरण इति । यत्र "वेदांश्चैके सन्निकर्ष पुरुषाख्या” इति [मी. सू. १.१.८.२७] कठादिकृतत्वेन काठकादिसमाख्यावशात् कृतकत्वेन वेदानां पूर्वपक्षः कृतः, वेदांश्चैके सन्निकर्ष सन्निकृष्टकालभवं वाक्यज्ञानं मन्यन्ते । यतः पुरुषैः काठकादिभिस्त[90A]स्य आख्येति ततः सिद्धान्तितम् "आख्या प्रवचनात्" इति [मी. सू. १. १. ८. ३०] । प्रवचननिमित्ताऽप्याख्या भवति न केवलं कर्तृनिमित्ता यतः कठेन प्रकर्षणाध्ययनमस्य कृतमतः काठकमित्यभिधीयते, "तेन प्रोक्तम्' इति[पाणिनि ४. ३.१०१] प्रोक्तेऽपि तद्धितस्मरणात्। सर्वशाखाधिकरणेऽपीति । सर्वशाखाधिकरणं यत्र प्रतिशाखं श्रयमाणानि अग्निहोत्रादिकर्माणि किमन्यान्यन्यानि आहोस्विद् एकमेव तत्कर्मेति चिन्त्यते । तत्र काठकं कालापकमित्याधभिधानाद् भेदः, कचिदग्नीषोमीय एकादशकपालः श्रयते कचिद् द्वादशकपाल इत्यादिरूपभेदादिभ्यश्च भिन्नत्वं [इति] पूर्वपक्षमाशङ्क्य सर्वशाखास्वेकतया प्रत्यभिज्ञायमानत्वात् सर्वशाखापेक्षोत्पत्तिकं सर्वशाखाप्रत्ययमेकं कर्मेति व्यवस्थापितम् । अधिकरणान्तर इति । “सङ्खचायुक्तं क्रतोः प्रकरणात्" [मी० सू० ३.३.१२.३२]इत्यत्र । अत्र हि "ए[90B]ष वाव प्रथमो यज्ञानां यज्जयोतिष्टोमः" इति वचनसमाश्रयणेन ज्योतिष्टोमस्य प्रथमयज्ञत्वं पूर्वपक्षे व्यवस्थाप्य सिद्धान्ते प्रथमप्रयोगाभिप्रायेण प्रथमयज्ञशब्दो निरूपितः 'प्रथमं प्रयुज्यमानो यज्ञः प्रथमयज्ञः' इति । अत्र प्रसङ्गे चेदमुक्तम्-"न चैतदस्ति यज्ञस्यैष वाद इति । चतुर्वपि वेदेषु न प्रथमयज्ञ इत्येवंसंज्ञकः कश्चिद् यज्ञोऽस्ति" इति [शाबरभा० ३.३.१२.३३] ।
न त्रयीप्रत्ययमिति त्रयीप्रत्ययं त्रयीप्रतिपाद्यम् । तत्सम्बद्धम् त्रयीप्रत्ययसम्बद्धम् । इष्टिपश्चिति । इष्टयः दर्शपूर्णमासाद्याः । पशवोऽनबन्ध्याद्याः। एकाहा ज्योतिष्टोमादयः । अहीना अहर्गणद्विरात्रादयः । सत्राणि द्वादशाहादीनि । त्रय्युपदिष्टेऽपि कर्मणि अथर्ववेदादिति । तस्माद् ब्रह्मा पुरस्ताद् होमसंस्थितहोमैर्यज्ञं परिगृह्णीयादित्यनारभ्य वाक्यमिष्टिपशुसोमादिष्वाथर्वणं पुरस्ताद्धोमं संस्थितहोमं च ब्रह्मणा क्रियमाणं दर्शयति, अथर्ववेद एव तयो)मयोराम्नानादिति । वेदानुवाच कं वो होता!मित्यत्र कं किंज्ञमिति व्याख्येयम्, उत्त[91A]रे ऋग्विदमित्यादिश्रवणात् । वः युष्माकं मध्यात् किंज्ञ
१ नामरूपधर्मविशेषपुनरुक्तिमिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरेषु कर्ममेदः स्यात् । मी०सू० २.४.२.८ । २ एकं वा संयोगरूपचोदनाख्यविशेषात् । मी०सू० २.४.२.९ । न चैतदस्ति, यदुक्तं शाखान्तरेषु कर्ममेद इति । सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म । शाबरभा• । ३ ताण्डयवा० १६.१.२ । १ गोपथना० पूर्वभा०प्र० २ (पृ.४०)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org