________________
१०४
भट्टश्रीचक्रधरप्रणीतः [का०पृ०२३५, वि००२५६ वृणोमीत्यर्थः । पुरस्तादेवैषां यज्ञो रिच्यते प्रथमत एव रिक्तो भवति । यज्ञे यनमिति' । ऊनमङ्गैरसम्पूर्णम् । विरिष्टं विशेषेण रिष्टं, हिंसितमसम्यकृतमन्त्रादिप्रयोगम् । यातयाम निर्वीर्यम् । अथर्वणां मन्त्राणाम् । नर्ते भृग्वाङ्गिरोविद्भय इति । यावद् भृग्वशिरोविद ऋत्विजो ब्रह्माख्या न भवन्ति तावदन्यवेद विदि सत्यपि ब्रह्मणि सोपपानाधिकारो नास्तीत्यर्थः ।
योगसिदध्यधिकरणन्यायेनेति । योगसिद्ध्यधिकरणे हि-"एकस्मै वा कामायान्या इष्टय आहियन्ते, सर्वेभ्यो दर्शपूर्णमासौ, एकस्मै वाऽन्ये क्रतवः कामायाऽऽहियन्ते सर्वेभ्यो ज्योतिष्टोमः" इति श्रुतिवाक्यमुदाहृत्य चिन्तितम् 'किं सकृत्प्रयोगे सर्वे कामा उत पर्यायेण इति । तत्र सकृत्प्रयोगेणेति पूर्व पक्षितम् , सर्वनिमित्तत्वेन श्रवणात्; कः खलु विशेषोऽयं भवत्ययं न भवतीति । तथा चाह"तत्र सर्वे अविशेषात्” इति [ मी० सू० ४. ३. १०. २७ ] । ततः सिद्धा[91 B]. न्तितं "योगसिद्धिर्वाऽर्थस्योत्पत्तियोगित्वात्" [ मी०सू ० ४.३.१०.२७] इति । अस्यार्थः-न वा सर्वे कामा युगपत, पर्यायेण योगसिद्धिः कामसम्बद्धसिद्धिः । यदा यदा यः कामस्तदा तदा तस्य सिद्धिरित्यर्थः । अर्थस्य कामस्य युगपदुत्पत्तेरसम्भवाद्विरोधाच्च । न हि आयुष्कामना-मरणकामनाद्याः सर्वा युगपत् उत्पत्तमर्हन्ति, तथाविधानां विरुद्धानामिच्छानां युगपदुत्पादादर्शनात् ।
यज्ञाथर्वाणं वै काम्या इष्टयः 'चित्रया यजेत पशुकामः' [तै०सं०२. ४. ६. १.] इत्याद्याः। यज्ञा अथर्वयज्ञा रहस्ययज्ञा इत्यर्थः । न सर्वशब्दः सङ्कोचितो भवति । अशेषवेदवृत्तेरेकपरिहारेण वृत्तिः सङ्कोचः । पूर्वोत्तरब्राह्मणे यत्र 'ऋग्वेदः किं वेद' इति पूर्वमभिधाय 'हौत्रं वेद' इत्युत्तरम् । ब्रह्मौदने श्रूयत इति । ब्रह्मौदनाख्ये चरौ स हि ऋत्विगुदेशेन क्रियते, न देवतान्तरोद्देशेन, 'यद् ऋत्विजः प्राश्नन्ति तद् ब्रह्मौदनस्य ब्रह्मौदनत्वम्' इति वचनाद् ऋत्विक्संस्कारार्थत्वं तस्य न यागद्रव्यत्वम् ; अतश्चतुःशरावनिर्वापेष्टौ हुत्वा ऋत्विज उद्देश्याः । ब्रह्मणे [92A] त्वा प्राणाय जुष्टं निर्वपामि, ब्रह्मणे त्वा व्यानाय जुष्टं निर्वपामि, ब्रह्मणे त्वाऽपानाय जुष्टं निर्वपामि ब्रह्मणे त्वा समानाय जुष्टं निर्वपामीत्यभिधायाह-श्रुता या देवतास्तासामेवैतज्जुष्टं निर्वपति; ऋचो वै ब्रह्मणः प्राणाः, ऋचामेवैतज्जुष्टं निर्वपति; यजूंषि वै ब्रह्मणो व्यानो, यजुषामेवैतज्जुष्टं
१ गोपथब्रा० पूर्वभा० प्र० १ (पृ. ११)। २ गोपथब्रा० पूर्वभा० प्र० १ (पृ. १५) । ३ मी० सू० ४. ३. १०. २५:-२८. ४ उद्धृतं शाबरभाष्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org