________________
१०२
भट्टश्रीचक्रधरप्रणीतः [ का पृ०२३३, वि०पृ०२५४ इत्यत्रेतिहासपुराणं पुष्पमिति ग्रन्थशेषः । मनोमय इति' । आशुगतित्वाद् । पुरुषविधतां रूपयित्वा तदवयवविभागमाह--यजुरेव शिर इत्यादि । आदेशः “आदित्यो वै ब्रह्म" इत्यादिको [छन्दोग्योपनिषद् ३. १९. १] रहस्यविधिरूपो अंशविशेषः । प्रतिष्ठेति । पुच्छे हि सति लब्धप्रतिष्ठो भवति । ब्रह्मयज्ञविधिपक्रम इति । ब्रह्मयज्ञो यत्र वेदाध्ययनमेव विशिष्टयेतिकर्तव्यतया क्रियते । तत् क्रियमाणं यज्ञशब्दवाच्यम् । वामग्ने पुष्करादिति । "त्वा[89A]मग्ने पुष्करादध्य[थ]र्वा निरमन्थत । मूनों विश्वस्य वाघतः” इत्यग्निनिर्मथने मन्त्रः । अत्राथर्वशब्देनाथर्वविद् ब्रह्माऽभिहितः । हे अग्ने त्वां पुष्करादरणिषु शिरारूपादाकाशाद् अथर्वा अथर्वविद् ब्रह्मा निरमन्थत निर्मथितवानुदपादयत् । अरणिस्पर्शनरूपव्यापारवत्त्वेन तत्कर्मणि तस्य मुख्यत्वात् । कथं च निरमन्थत ? अधि आधिपत्येन युक्तः, ऋत्विगन्तराणामनुज्ञादानेन तस्य प्रशास्तृत्वात् । तदनन्तरं तु विश्वस्य म्ों मूर्धानः प्रधानभूता वाघत ऋत्विजोऽग्निं निर्मथितवन्तः, होत्रादयः वाघत ऋत्विजः, 'ऋत्विजो भरताः कुरवो वाधतः' इति ऋत्विङ्नामसु पाठात् । अत्र ब्रह्मण ऋत्विक्त्वेऽपि मुख्यत्वेन पृथगनिर्देशो 'ब्राह्मणा आगता वशिष्ठाश्च' इतिवत् । श्रुतीरथर्वाङ्गिरसीरित्यस्यात्य(न्त्य)मर्धम्-'वाक्छस्त्रं ब्राह्मणस्य तेन हन्यादरीद्वि(रीन् द्वि)जः' इति[मनुस्मृति ११. ३३] । वागत्राभिचाररूपा विवक्षिता । अथर्वमन्त्रैराभिचारिकैः शत्रुन त्रून)भिचरेदित्यर्थः । कुर्यात् प्रयुञ्जीत ।
अगोरप्यस्य विज्ञानादिति न केवलम् , [अपि तु]न हायनैर्न[89B]पलितैर्न वित्तेन न बन्धुभिः । ऋषयश्चक्रिरे धर्म योऽनूचानस्स नो महान् ॥इति।
'वर्षादिकृतज्यैष्ठ्यव्यतिरेकेण साङ्गवेदाध्ययनबललब्धानूचानव्यपदेशो नोऽस्माकं महान् ज्यायान्' इत्येवम् ऋषयो धर्ममर्यादां कृतवन्तः; यावदस्य पूर्वोक्तस्य गादेः सम्बन्धिनोऽणोरपि स्वल्पस्यापि अर्थद्वारेण विज्ञानादपि यो लब्धानचा नव्यपदेशः सोऽपि नो महानिति ऋषयो धर्म चक्रिर इत्यर्थः ।
नैष्ठिको ब्रह्मचारी यो ब्रह्मचर्येणैव शरीरं निष्ठाम्-अन्तं नयति । पश्चाग्निः
१ तैत्तिरीयब्रह्मोपनिषद् २.३.। २ शतपथ ११.३.८ । ३ तैत्तिरीयसंहिता ३.५. ११। ४ शातातपस्मृतिः। ५ तुलना-"आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम्" [मनुस्मृति २.२४ ४] इत्यनेन नैष्ठिकब्रह्मचर्यमुक्तम् । मेधातिथि ३.१ । ६पञ्चामिविद्या नाम छान्दोग्योपनिषदि विद्याऽऽम्नायते (५.१०९) "स्तेनो हिरण्यस्य'' इत्यादि यस्याः फलं तदध्ययनसम्बन्धात् पुरुषोऽपि पञ्चाग्निः पूर्ववत् । अन्ये तु पञ्चायो यस्य त्रयस्त्रेताऽग्नयः सभ्यावसथ्यौ च द्वौ पञ्चाग्निः । मनुस्मृ० मेधा० ३.१८५ । गार्हपत्यः, आहवनीयः, दक्षिणाग्निः इत्यग्नित्रयस्य त्रेता इति संज्ञा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org