________________
का०पृ०२३४, वि०पृ०२५४] न्यायमञ्जरीग्रन्थिभङ्गः पात्रिंशदब्दिकमित्यस्योत्तरमर्धम् - "तदपिकं पादिकं वा ग्रहणान्तिकमेव वा” इति[मनु. स्मृति ३. १] । ब्रह्मचारिणा चर्य चरणीयं ब्रह्म । क ? गुरौ गुरुगृहे । किमर्थम् ? त्रैवेदिकं त्रिवेदग्रहणार्थम् । किंकालावच्छिन्नम् ? तदाह-'घाट्त्रिंशदब्दिकम्" षट्त्रिंशतोऽब्दाना समाहारः षत्रिंशदब्दं तत्र भवं षात्रिंशदब्दिकम् । “ग्रहणान्तिकमेव वा" इति यावता कालेन वेदत्रयं ग्रहीतुं शक्नोति तावन्तं कालमित्यर्थः । 'आथर्वणेन न प्रज्यात्' इति आथर्वणेन कर्मणा त्रय्युक्तं कर्म न प्रवृञ्ज्यान्न मिश्रयेदिति ब्राह्मण उपदेशः । ___ यदि यज्ञोपयोगित्वमिति' । "क्रीतराजकभोज्यान्न” इत्येतद् वाक्यमथर्ववेदेऽस्ति । "अग्नीषोमीये संस्थिते दीक्षितस्य गृहे नाश्नीयात्" इत्येतच्च त्रय्यां श्रूयते । अथर्ववेदस्य यज्ञोप[88A]योग्य(ग)शून्यत्वेन प्रामाण्यमेव नास्त्यतः कथमस्य त्रयीगतेन "अग्नीषोमीये संस्थिते दीक्षितस्य गृहे नाश्नीयात्" इत्यनेन सह विरोध इत्याशङ्क्य तन्त्रटीकायामुक्तम्
क्रीतराजकभोज्यान्नवाक्यं चाथर्ववैदिकम् ।
न च तस्याप्रमाणत्वे किश्चिदप्यस्ति कारणम् ॥ तन्त्रवा० १. ३. २] । यज्ञानुपयोगः कालमि(कारणमिति चेन्नेत्याह-यदि यज्ञोपयोगित्वमिति । आत्मीयगोचरा इति । आत्मीयः स्वसम्बन्धी पदार्थो गोचरो विषयो यासाम् । यः पदार्थों यस्मिन् वेद उत्पन्नः स पदार्थस्तस्य वेदस्यात्मीयः, अतस्तेन वेदेन तत्पदार्थविषयाः क्रियाः- यथाऽसौ पदार्थः क्रियतेऽनुष्ठीयते तथा प्रमीयते प्रतिपाद्यते-नान्यपदार्थगोचराः । यथा यजुर्वेद उत्पन्नयोर्दर्शपूर्णमासयोः क्रिया यजुर्वेदेन प्रतिपाद्यते न सामवेदोत्पन्नस्य श्येनादेरिति । एकब्रह्मत्विगाश्रिता इति । ऋत्विगन्तरनिरपेक्षेण ब्रह्मणैव निवर्त्यन्ते याः।
__ अश्वमेधे पारिप्लवोपाख्यान इति । तत्र राजानमभिषिञ्चतीति राज्ञोऽभिषेकसमयेऽभिषेचनीयेष्टिक्र[88B]मे आख्यानानि सन्तीति । हरिश्चन्द्रोपाख्यानं शौनकोपाख्यानं विशिष्टर्षिराजचरितसम्बन्धा ग्रन्थविशेषाः पाठ्यत्वेन चोदिताः, तत्र च पारिप्लवोपाख्यानस्याथर्वे(व)[वे]दतया स्तुतिः क्र(कृ)ता ।
तथा येऽस्य प्रत्यञ्चो रश्मय इति । तत्रादित्यो वै देवमध्विति प्रकृते येऽस्य देवमध्वात्मन आदित्यस्य । मधुनाड्यो नु मधुधारिण्यः ऋच एव पुष्पं मधुजनकम् । अथर्वाङ्गिरस इत्यथर्ववेदमन्त्राणामाख्या । अथर्वाङ्गिरस एव मधुकृत
१ तन्त्रवा० १.३.२. (पृ. १८९)। २ तन्त्रवा० १.३.२ (पृ० १८९)। ३ तन्त्रवा. १.३.२ (पृ.१८९)। ४ शतपथ १३.३.७.। ५ छान्दोग्योपनिषद् ३.३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org