________________
भट्टश्रीचक्रधरप्रणीतः का०पू०२१८,वि०पू०२३८ मन्त्रार्थवादमूलत्वमिति । विश्वतश्चक्षुरित्यादेमन्त्रार्थवादादन्यथागृहीतादीश्वरसत्तां गृहीत्वा स्मरन्तीति ।
उपोबलनमिष्यत इति । उद्गतं बलमुबलग(म)धिकमुद्बलमुपोबलं तस्य करणम् उपोदबलनं तेन ।
चित्रजगत्कार्येति । चित्रं जगल्लक्षणं यत् कार्य तद् यैः गुणैः समाहर्तुं [83A] शक्यते सर्वज्ञतादिभिस्तेषामाशयः स्थानम् ।
हौत्रं होतृकर्मयाज्यानुवाक्यापाठादि । आध्वर्यवमध्वर्युकर्म पुरोडाशादिकरणं होमश्च । औद्गात्रमुद्गातृकर्म स्तोत्रादिपाठः । सर्वशाखापत्ययमिति । सर्वशाखाधीनः प्रत्ययः प्रतीतिर्यस्य । न ह्ये कस्यां शाखायां निरपेक्षं कर्म प्रतीयते ।
काव्यसमस्यापूरण इति । यत्रैकः पादः कविना रच्यते द्वौ वा शिष्टमन्यैः पूर्यते सा काव्यसमस्या । यथा 'समुद्राद् वह्निरुत्थितः' इति 'सीताऽसमागमासह्यादाकर्णाकृष्टधन्वनः । राघवस्य शराङ्गारैः' इति पादत्रयेण पूरयन्ति ।
विश्ववमुकाव्यम् "जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मत्तकानि" इत्यादिकम् । प्रसिद्धपदार्थापेक्षयाऽनन्वितार्थमिति वर्णयन्ति, मीमांसकभाष्यकृताऽस्यैवानन्वितार्थोदाहरणत्वेन प्रदर्शनात् ।
प्रकृष्टाध्ययननिवन्धनो भविष्यतीति । प(क)ठेनासाधारण्येनैवैषा शा [83B] स्वा प्रोक्ता शिष्येभ्यो निगदिता । भवद्भिरप्युक्तम् । 'वेदांश्चैके सन्निकर्षम् पुरुषाख्या' [मी०सू०१.१.८.२७] इति पूर्वपक्षयित्वा 'आख्या प्रवचनात्' इति [मी० सू० १.१.८.३०] सिद्धान्तयद्भिः ।
तत्किं कार्यकारणेति । कार्यकारणलक्षणः सम्बन्धो बीजाङ्कुरयोरिव, निमित्तनैमित्तिकलक्षणः कुविन्दपटयोरिव, आश्रयाश्रयिभावलक्षणस्तु कुण्डबदरयोरिव। आदिग्रहणात् कार्योत्पादेऽप्यनिवृत्तः कारणविशेषयोनिस्तत्कृतः सम्बन्धः पितापुत्रयोरिव । प्रत्ययनियमहेतुत्वादिति । विशिष्टार्थविषयप्रत्ययस्तेनासम्बन्धान्नोपपद्यत इति भावः ।
१ अरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मत्तकानि। तं ब्राह्मणी पृच्छति पुत्रकामा राजनरुमायां लशुनस्य कोऽर्थः ॥इति।। उद्धृतं तन्त्रवार्तिके (१.१.८.३२). २ 'जरद्गवो गायति मत्तकानि' कथं नाम अरद्गवो गायेत् । शाबरभा० १.१.८.३२. ३ प्रकर्षेण वचनमनन्यसाधारणं कठादिभिरनुष्ठितं स्यात् तथाऽतिहि समाख्यातारो भवन्ति । शाबरभा० १.१.८.३०
संषसम्बन्धमभिप्रेत्योच्यते कार्यकारणनिमित्तनेमित्तिकाश्रयाश्रयियोमादयः सम्बन्धाः शन्दस्यार्थेनानुपपन्ना एवेति। शबरभा०१.१.५। ५ तुलना-शब्दार्थव्यवस्थामादप्रतिषेधः । न्याम्सू० २.१.५४। शब्दादर्थप्रत्ययस्य व्यवस्थादर्शनादनुमीयते अस्ति शब्दार्थसम्बन्धो व्यवस्थाकार णम् । न्या०भा०। शब्दो संबद्धमर्थ प्रतिपादयति प्रत्ययनियमहेतुत्वात् प्रदीपवत्...न्यायवा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org