________________
का०पृ०२२४, वि०पृ०२४४] न्यायमञ्जरीग्रन्थिभङ्गः
नियोगेति] व्यवस्थया नियोगो नियोजनम् ।
शब्दार्थाभेदवादिनां हीति । शब्द उच्चरिते शब्दाकारतया प्रथमं बुद्धिविवर्तते, सा तथा विवृत्ता सती ततोऽर्थाकारतया विपरिणमते, तस्यां च तथाभूतायां बुद्धौ शब्दस्वरूपमेवाकारतया निर्वृत्तमवगम्यत इत्यादि युक्त्युपन्यासपूर्वकं शब्दार्थयोरभेदमाहुः शाब्दाः' । संश्लेष इति] संश्लेषरूपसम्बन्ध इति, प्रागुक्तनीत्या शब्दसंसृष्टस्यैवार्थस्यावगमात् । सांसिद्धिक एवेति । स्वाभाविक एव शक्तिद्वयनियमलक्षणसम्बन्ध इत्यर्थः [84 A] | उदघोतादयः प्रदीपादयः ।।
एवं प्रतीयते 'धमोऽग्नि विना न भवति' इति न पुनः 'धूमादग्निः प्रतीयते' इत्येवम् । यदि प्रत्यायकत्वं शब्दस्य स्वाभाविकं तत् प्रथमश्रुत एव कस्मान्न प्रत्याययेदित्याशङ्कानिवारणायेदं शाबरं भाष्य "प्रत्यायक इति प्रत्ययं दृष्ट्वा" इति [शाबरभा० १.१.५] ।
मृणिरङकुशः । कार्यभेदस्यान्यथाऽप्युपपत्तेः समयभेदेनाप्युपपत्तेः ।
न च वाच्यं कथमेकस्य शब्दस्य नानार्थतेति, यतो दृष्टमेतदक्षादिषु शब्देषुः तदाह-अक्षादिवदिति । यथा बिभीतकादित्रयवाचिनो अक्षशब्दस्य युगपत् त्रयवाचित्बासम्भवाद् विकल्पेन त्रयवाचित्वेऽपि प्रकरणादिवशात् क्वचिदेव व्यवस्थिते नियते विषये वृत्तिः । एवं देशान्तरे अन्य]स्मिन्नन्यस्मिन् स्वार्थे प्रयुक्तानां शब्दानां विकल्पेनानेकार्थवाचित्वेऽपि देशवशान्नियतपदार्थे वृत्तिर्भविष्यति । ततश्च 'यब'शब्दमार्या दीर्घशूकेषु प्रयुञ्जते, म्लेच्छास्तु प्रियङ्गुषु, तत् म्लेच्छप्रसिद्धिं बाधित्वा दीर्घशूकेश्वयं यवशब्दः प्रयोक्तव्यो न प्रियगुष्विति न वाच्यम् , उभयवाचकत्वेऽपि देशवशाद् व्यवस्थायाः सिद्धेः । पिकनेमतामरसादिशब्दा[84B] नामिति । पिकनेमाधिकरणे हि "चोदितं तु प्रतीयेताविरोधात् प्रमाणेन" [मी० सू० १.३.५.१०] इत्यत्रैतचि(च्चि)न्तितम् । भवतु यवादिशब्दानामार्यप्रसिद्ध एवार्थः, ये तु पिकनेमतामरसादयः मार्न कचित् प्रयुञ्य(ज्य)ते(नते) तेषां किं म्लेच्छप्रसिद्ध एवार्थ उत व्याकरणादिव्युत्पत्ति
१० वाक्यपदीय १. १.। २ एकशब्दमनेकार्थ शिष्टैराचर्यते यदा । विगानेम तदा तत्र कोऽर्थः स्यात् पारमार्थिकः ॥ यववराहवेतसशब्दाः प्रियङ्गुवायसजम्बूष्वपि किल क्वापि देशान्तरे प्रयुज्यन्ते । ...... बिभीतकेऽक्षशब्दो हि यद्यप्यल्पैः प्रयुज्यते । तथाऽपि वाचकस्तस्य ज्ञायते शकटाक्षवत् ॥ तन्त्रवा० १.३.४.८ । ३ एकस्यापि हि शब्दस्य देशादिभेदेन प्रतिनियतः सङ्केतो ऽनुभूयते, यथा गुर्जरादौ चोरशब्दस्य तस्करे द्राविडादौ पुनरोदने इति । स्था० र० पृ०७०३। एकस्यापि हि शब्दस्य देशादिभेदेने प्रतिनियतः सङ्केतोऽनुभूयते, यथा मालवकादौ कर्कटिकाशब्दस्य फलविशेषे, गुर्जरादौ तु योन्यामिति । न्यायकुमुद० पृ० ५४० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org