________________
भट्टश्रीचक्रधरप्रणीतः [का-पृ०२०७,वि०पृ०२२६ मुधैषां बहुमानोऽयं वस्त्वनुत्पाद्य किश्चन । [श्लो० वा०शब्दनित्यता० १३०-१३२]
संस्कारव्यतिरिक्ते च सर्वलोकस्य वस्तुनि ॥
श्रोत्रशब्दः प्रसिद्धोऽयं स्वाच्छा(च्छ)न्येनापनीयते । [ग्लो०वा०शब्दनित्यता० १३६-१३७]
ततो वेदानुसारेणेति' । 'दिशः श्रोत्रम्' इति [ ] वेदानुसारेण ।
दिशः कार्यान्तराक्षेपादिति । कार्यान्तरेण पूर्वापरादिप्रत्ययेन दिगाक्षिप्यते सत्तया व्यवस्थाप्यत(ते) । आकाशस्य तु शब्दव्यतिरेकेणान्यत् कार्यान्तरं नास्तीति ।
आगमस्य चाऽन्यपरत्वम् । अनेन हि 'सूर्य ते चक्ष(क्षु)र्गमयताद् दिशः श्रोत्रम्' [ ] इत्यादिना पशुसंज्ञपनकाले शमिता प्रोत्साह्यते 'ते तव पशोः सम्बन्धि [78B] चक्षुरयं शमिता सूर्य गमयतात्' इति; न च भवता शमित्राऽस्य पशोरपकारः क्रियते प्रत्युतोपकार एव, एतच्छरीरावयवानां देवमूर्तिप्राप्तिहेतुत्वाद् भवतः । पशुनिहन्ताऽध्वर्युकर्मकरः मितेत्युच्यते ।
प्रदेशान्तरे च सैव कार्यमारभत इति । गच्छतो धूमादिदर्शनादविनामावसम्बन्धग्रहणद्वारेण यत्र धूमदर्शन जातं ततो देशान्निःसृतस्य देशान्तरे वह्नयादिबुद्धिदर्शनादिति ।
सीदत्सचिवेति । सचिवाः सहकारिणः, सीदददर्शनवद् यत् सामर्थ्य तत् सापेक्षतया मन्दा वृत्तिः स्वसामर्थ्यमिति यस्य ।
अद्रव्यं वा भवति द्रव्यमिति । न विद्यते जनक द्रव्यं यस्य । अनेकद्रव्यं जनकं यस्येति च विग्रहोऽनेकद्रव्यमित्यत्र ।
आश्रिताः षडपीष्यन्ते पदार्थाः कणभोजिनेति । तदुक्तम्-"षण्णामाश्रितस्वमन्यत्र नित्यद्रव्येभ्यः" [प्रशस्त०भा० पृ० ११६] इति ।
नियतग्रहणमूलमिति । नियतदेशं यदेतच्छब्दस्य ग्रहणमस्य कार्यत्वमेव मूल हेतुः, नित्यत्वपक्षे हि मद्रेष्वभिव्यको गोशब्दः कश्मीरेषु श्रयेतेत्यादिना नियतदेशतया ग्रहणाभावः प्रतिपादितः।
न समानजातीयारम्भकत्वादिति । समानजातीयारम्भकत्वेनाकर्मत्वसाधने हीतरेतराश्रयत्वं स्या[79A]दिति भावः ।
आदिमत्त्वादिति । आदिः अनुत्पन्नस्योत्पादः । न प्रयत्नानन्तरीयकत्वम् अनेकान्तिकमिति । अभिव्यङ्ग्येऽपि भावादिति । यदुक्तम् आवरणानुपलब्धेश्चेति
१ श्लो० पा० शब्दाधि० १५० । २ न्या.सू. २.२.१४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org