________________
का०पृ०२१३,वि०पृ०२३२] न्यायमञ्जरीप्रन्थिंभङ्गः सुत्रावयवम्' 'न हि स्तिमिता वायवः' इत्यनेन व्याख्यातुमाह । वार्तिककृतापीति उद्योतकरेण।
____ एकार्थसमवायेन इत्यस्योत्तरमर्धम्-'आधारत्वमथोच्येत नामूर्ताऽऽधीयते ह्यसौ' इति[श्लो॰वा०शब्दनित्यता० ३४०] । एकस्मिन् गवादावर्थे समवेता या सत्ता गोत्वेन सह, तया जातिमत्ता गोत्वेन सह, तया जातिमत्ता गोत्वादीनाम् ।
वस्तुसन्मात्रबन्धनमिति । जातिमत्त्वादिना वस्तुनः सन्मानं सत्तामात्रं साधयितुं शक्यते, न पुनरनित्यत्वादिविशेष इत्यर्थः ।।
न्याये प्रत्युक्ते किंफलस्तत्प्रयोग 'न्यायोक्ते लिङ्गदर्शनम्' [मी० सू० ३.८.२१.४१]इति भवद्भिरेव व्यवस्थापितत्वात् । न च शब्दनित्यत्वसिद्धौ न्यायोऽस्ति अतो निष्फलो 'वाचाविरूपनित्यया' इत्यादिलिङ्गदर्शनोपन्यासः ।
सत्त्वाद्यदीति । न हि बौद्धानां स्थूलविनाशदर्शनमेव क्षणिकत्वे हेतुर[79B] पि तु सत्त्वाद्यपीत्याह । गत्यन्तरादनित्यत्वेऽर्थप्रत्यायकत्वानुपपत्तिलक्षणात् । शक्त्यन्तरादिति वा पाठे शक्त्यन्तरादर्थप्रत्यायनसामर्थ्यलक्षणात् । किं प्रौढवादिबहुमानपरिग्रहेण । मत्पक्षो युक्तो यावद् भवत्पक्षः सर्वथैव नोपपद्यत इति वादेन यः प्रौढवाद्यहमिति बहुमानस्तदाश्रयणेन ।
कविः कान्तदर्शनः ॥
भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीप्रन्थिभङ्गे तृतीयमाह्निकम् ।
१ न्या.सू. २.२. १८ । २ प्रलोवा० अनु० २१। ३ द्र० पृ०८८ टि०२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org