________________
का०पृ०२०७, वि०पृ०२२६]
न्यायमञ्जरीग्रन्थिभङ्गः
एतेन ब्राह्मणत्वादीति । एतेन श्रवणग्राह्यत्व कृतशब्दः 'शब्द' इत्यभेदप्रत्यनिराकरणेन । ' ब्राह्मणो ब्राह्मणः' इत्यादिरप्यभेदप्रत्ययो विशिष्टानुष्ठानाद्युपाधिकृत इति हि आहे । गिरिशृङ्गमारुह्येति । सापेक्षतया सक्लेशतया तदपेक्षया दृष्टान्तः । एतेन सर्वत्र यौगपद्यादिति । सर्वत्र सर्वगवीषु गोशब्दादुच्चारिताद् युगपत् प्रत्ययदर्शनादाकृतिवचनत्वं गवादेः शब्दस्यावगम्यते, व्यक्तिवचनत्वे हि नियतैकव्यक्तिप्रतिपत्तिः स्यात् । तत्र च द्रव्यत्व-सत्तायाकृतीनां बह्वीनामपि सम्भवान्नियताकृतिवचनत्वमन्वयव्य [77B] तिरेका म्याम सकृत्प्रयोगान्निश्चीयते, असकृत्प्रयोगश्च नित्यत्वं विना न घटत इति 'सर्वत्र यौगपद्यात्' [मी० सू० १.१.६.१९] इति सूत्रार्थः ।
एतदपि गत्वादिजात्युपलक्षितानां भिन्नानामपि प्रयोगे सिद्धयत्यनित्यत्वपक्षेऽपीत्यनेनाभिप्रायेणोक्तम् – पञ्चकृत्वो ब्राह्मणा भुक्तवन्त इति । अत्र भुजिक्रियावद् भोक्तृणामप्यन्यत्वम् ।
यदपि ‘सङ्ख्याभावात्' [मी०सू० १.१.६.२० ] इति सूत्रम् शब्दे सङ्ख्याया अभावान्नित्यत्वमित्यस्यार्थः । सङ्ख्याया अभावाच्च यथा नित्यत्यं तथाऽऽह भाष्यकारः- - " अष्टकृत्वो गोशब्द उच्चरित इति हि वदन्ति नाष्टौ गोशब्दा इति । किमतो यद्येवम् ? अनेन वचनेनावगम्यते प्रत्यभिजानन्तीति” [ शाबरभा० १.१.६.२०] । इदमेव चेदृशं भाष्यं चेतसि निधायाह - यदपि प्रत्यभिज्ञानं तद्द्वारकमुदाहृतमिति । तद्द्वारकं कृत्वसुप्रयोगद्वारकमित्यर्थः ।
नियमो ननु किंकृत इति । विनाशधीरेव बाधिका न प्रत्यभिज्ञा इत्येवंरूपः । मै विनाशिताबुद्धिरिति । प्रत्युच्चारणं हि शब्दा भिन्ना उपलभ्यन्ते, सति चैक्ये भेदबुद्धिर्नानुगुणेति भेदबुद्धिर्विनाशावगमस्योपो [78A ] द्वलिका । सा चेयमिति यथा प्रत्यभिज्ञा सादृश्यादिनाऽप्युपपद्यत इत्यन्यथासिद्धा नैवं विनाशधीरित्यर्थः ।
ये पुनरत्र गन्धा उदाहृता इति । यथा दग्धभुवो जलसम्पर्काद् गन्धाभिव्यक्तिस्तैलस्य चातपयोगादिति ।
भन सोपहासमेष दूषित इति । यथाह भट्ट : -
अमुमेव च संस्कारं शब्दग्रहण कारणम् ॥ केचित्तु पण्डितंमन्याः श्रोत्रमित्येव मन्वते । संज्ञासश्चारणादेष बहुमानः स्वचेतसि ॥
१ योऽपि चायं शब्दशब्दः, सोऽपि श्रोत्रग्रहणोपाधिलब्धप्रवृत्तिरिति न जातु जातिकल्पनाये विभवति ।.......अनयैव दिशा ब्राह्मणत्वादिजातिरपि निवारिता । प्रकरण पं० पृ० १०१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org