SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ भट्टश्रीचक्रधरप्रणीतः [का०पृ०२०२,वि०पृ०२२० तथैव नित्यचैतन्याः पुमांसो देहवृत्तयः ।। गृह्णन्ति करणानीतान् रूपादीन् धीरसौ च नः ॥ तेनोपनीतसम्बन्धभङ्गित्वाद् भङ्गिनी मतिः । न नित्यं दाहको वह्निर्दाह्यासन्निधितो यथा ॥ [लो० वा० शब्दनित्यता० ४०४-४०८] इति । अहो रसमारूढो भट्ट इति । तथाहि गुणनित्यतां प्रत्यप्यसावाह एतयैव दिशा वाच्या[76B] शुक्लादेरपि नित्यता । संसर्गिभेदमात्रेण स्यात्तत्रापि हि भेदधीः ॥ स्वरूपं तु तदेवेति को जातीः कल्पयिष्यति । इत्यादि । [श्लो० वा० शब्द नित्यता० ४११-४१२] अद्वैतस्य च नातिदवीयानिति । उपलभ्यमानभेदनिराकरणद्वारेण । गत्ववदिदानी विवादास्पदीभूतत्वादिति । यथा भेदाधिष्ठानं गत्वं गव्यक्तिभेदस्यौपाधिकत्वेन स्वतो गवर्णस्य भेदाभावान्निराक्रियते तद्वत् शाबलेयादिभेदप्रतिभासस्याप्यौपाधिकत्वेन पिण्डभेदस्य स्वतोऽसम्भवाद् भेदाधिष्ठानगोत्वाभावः। चक्षु ापारभेदादप्युपपत्तेरिति । यथैकोऽपि वर्णो ध्वनिभेदाद् भिन्नः प्रतिभासते तथैकोऽपि गौः पुनः पुनश्चक्षुषा दृश्यमानः शाबलेयादिभेदेन प्रतिभासत इत्यर्थः । अत्वाभ्युपगमे अगमनशब्दवदागमनेऽप्यकारप्रत्यभिज्ञाने तुल्यार्थताशङ्कानिवारणायाह-यः पुनरकारेऽपीति । मरुतामपि तथा व्युत्पत्तेरिति । यथा व्यञ्जकवशाद् अकार एव दीर्घतया प्रतिभाति तथा अगमन-आगमनादौ भेदप्रतीतिदर्शनात् तथैव व्युत्पत्तिः । अपर आहेति प्रभाकरः। व्यक्त्यन्तरानु[77A]सन्धान मिति । व्यक्यन्तरे दृष्टे पूर्वानुभूतस्य गव्यक्त्यन्तरस्य यत्रानुसन्धानं परामर्शः । तत्कृतं हि तत् । यत् कस्याश्चिद् व्यक्तेर्व्यक्त्यन्तरेऽनुसन्धानं न सर्वासां तत् सामान्यकृतमित्यर्थः । गवयग्रहणसमये गोपिण्डानुसन्धानवदिति । अनेनानुसन्धानस्य परामर्शकत्वात् स्मरणस्वभावाभेदात् सादृश्यदर्शनमेव हेतुत्वेन कल्प्यते न सामान्यानुभव इति । पिण्डसारूप्यकारित पिण्डसादृश्यजनितमित्यर्थः । १ मुद्रित लोकवार्तिके तु 'तेनोपनेतृ' इति पाठः। २ मुद्रित लोकवार्तिके तु "सन्निधिना' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy