________________
का०पू०२०१,वि.पृ०२२०] स्यायमञ्जरीप्रन्थिभङ्गः तदपि वा भिन्नमित्येक इति । एक इति वैशेषिकाः, पाकजोत्पत्तिन्यायेन य आशुतरं शरीरस्यारम्भविनाशावाहुः, साङ्ख्या वा परिणामवादिनः, बौद्धा वा क्ष[75B] णिकवादिन इति ।
___ अन्या च विशेषबुद्धिरिति । विशेषबुद्धिर्यत्र पदार्थानां प्रातिस्विको विशेषः प्रतिभाति स्पष्टतया यथा गबुद्धौ यकारादिव्यतिरिक्तवर्णस्वरूपावभासः। अन्या च भेदबुद्धिर्यत्र प्रातिस्विकविशेषाप्रतिभासेऽपि वैलक्षण्यमात्रप्रतिभासो भिन्नवक्तृतयोचारितयोरिव गकारयोः । कथं पुनरसति विशेषोपलम्भे पदार्थानां भेदग्रह इत्याहविशेषाप्रतिभासेऽपीति । [विच्छेदेनेति विच्छेदेनान्यत्वेन प्रतीतिदर्शनादिति ।
गव्यक्त्यन्तराद् विच्छिन्ना-भेदेन न प्रतीयत इत्यर्थः ।
प्रतिसिक्थं विशेषो न प्रतिभातीति । तिलादीनां हि ये सिक्थगुलकास्ते तुल्यजातयो अनभिलक्ष्यगुणक्रियागतविशेषाश्च । अतो जात्यादिकृतस्तावत् तेषां विशेषो नोपलभ्यते । नापि यथा नित्यानां परमाण्वादीनामन्त्यविशेषसम्बन्धस्तथा तेषामस्ति, अनित्यत्वात् तेषाम् । एवं च विशेषानुपलम्भेऽपि यथा तत्र दृष्टत्वाद् भेदबुद्धिर्दुरपहवा तथेहापि भविष्यतीति भावः । [76A]
यत्ने सतीत्यादिनाऽवयवसन्निवेशकृतविशेषदर्शनेन गुणस्य " भेदकत्वमाहू, कश्चिद् गुलकस्त्रिकोणः कश्चिच्चतुरन इति । अवयवसन्निवेशस्य च त्रिकोणस्वादेः संयोगविशेषत्वात् ।
ननु बुद्धिरप्येका नित्या चेति साङ्ख्याभिप्रायेणाह अथवा भट्ट[]ष्ट्या यथाह भट्टः
बुद्धीनामपि चैतन्यस्वाभाव्यात् पुरुषस्य नः । नित्यत्वमेकता चेष्टा भेदस्तु विषयाश्रयः ॥ स्वरूपेण यथा वह्निनित्यं दहनकर्मकः । उपनीतं दहत्यर्थ दाह्यं नान्यं तु नान्यदा ॥ यथा वा दर्पणः स्वच्छो यथा वा स्फटिकोऽमलः
यद्यन्निधीयते योग्यं तच्छायां प्रतिपद्यते ॥ , तत्र पुनर्जठरामलसम्बन्धात् कललारम्भकपरमाणुषु क्रियाविभागादिन्यायेन कललशरीरे मष्टे समुत्पनपाकजैः कललारम्भकपरमाणुभिरदृष्टवशादुपजातक्रियैराहारपरमाणुभिः सह सम्भूय शरीराभतरमारभ्यत इत्येषा कल्पना शरीरे प्रत्यहं द्रष्टव्या । न्या०कं० पृ०८५ । २ प्रलोवा० स्फोरवाद २२। ३ मुद्रित लोकवार्तिके तु 'चान्यथा' इति पाठः ।
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org