________________
भट्टश्रीचक्रधरप्रणीतः
[ का० पृ० १९९, वि० पृ०२१७
निर्बाधं प्रत्यभिज्ञानमिति । अयमाशयः । शब्द आनुमानिक्यनित्यता, प्रत्यक्षेण च प्रत्यभिज्ञानात्मना नित्यत्वमिति प्रत्यक्षस्य बलीयस्त्वान्निर्बाधा सा प्रत्यभिज्ञा । धीकर्मणोः पुनरानुमानिकी प्रत्यभिज्ञा, अनित्यताऽप्यानुमानिकी; ततश्च तुल्यबलत्वात् तत्रानुमानयोर्नास्ति निर्बाधता प्रत्यभिज्ञायाः । बुद्धौ कर्मणि चातीन्द्रियद्रव्याधारे अप्रत्यक्षत्वादनुमानात् प्रतीतिः प्रत्यत्य ( भि) ज्ञाया आनुमानिकत्वमुक्तम् । अनित्यत्वमप्यानुमानिकमेव, सर्वेदा कार्यानुपलब्धिगम्यत्वात् तस्येति ।
पश्यतां तार्किकाणां पश्यतस्तार्किकान् अनादृत्येत्यर्थः । अर्थापत्तिः पूर्वयुक्ता च तस्मिन् 'दर्शनस्य परार्थत्वात्' इति ।
अनु[75A ]वदति यद् ध्रुवां वाचं वाचा विरूपनित्ययेत्यादिकम् । शिक्षाविदस्त्वति । ते हि मन्यन्ते वाय्ववयवा एव बहिर्निःसृताः शब्दात्मना स्थूलीभवन्ति । काष्ठेभ्य एव निःसृता धूमावयवाः सूक्ष्माः स्थूलधूमावयविजनकतया सम्पद्यन्त इति ।
८८
येsपि स्थूलविनाशेति । योऽयं घटादेर्मुद्गरादिभ्यो असभागसन्ततिरूपः स्थूलो विनाशः प्रत्यक्षमुपलभ्यतेऽसौ विनश्वरस्वभावस्यावश्याभ्युपेयोऽविनश्वरस्वभावस्य ? [ अविनश्वरस्वभावस्य ] तदभ्युपगमे गगनादेरपि विनाशित्वप्रसङ्गात् । विनश्वरस्वभावत्वे चापेक्षणीयाभावात् प्रतिक्षणमेव विनाशकल्पनेति । सर्वदाऽभिव्यक्तस्योपलम्भादन्ताभावः ॥
शब्दब्रह्म वैयाकरणवदिति । यथा वैयाकरणानां उपलभ्यमाना अपि भिन्ना वर्णा निरवयवं शब्दतत्त्वं न भिन्दन्ति व्यञ्जकत्वेन तत्स्वरूपानुप्रवेशाभावात् तेषाम्, एवं भवतोऽपि मीमांसकस्य परोपाधित्वाद् वर्णभेदः शब्दस्वरूपं नानुप्रविशेदिति ।
१ नित्यस्तु स्याद् दर्शनस्य परार्थत्वात् । मी०सू० १.१.६.१८ । २ लिङ्गं चैवं भवति, 'वाचा विरुरनित्यया' इति । शाबरभा० १.१.७.२३ । विरूपा च सा नित्या चेति विग्रहः । रूपयतीति रूपं कर्ता । विगतं रूपं यस्या इति कर्तृरहितेत्यर्थः । अत एव नित्या वागित्यर्थः । इयं च श्रुतिरग्निस्तुतिपरा सती वाचो नित्यत्वं योतयतीति लिङ्गं भवतीति । तन्त्रवा० । ३ 'ननु वायुकारणकः स्यादिति वायुरुद्वतः संयोगविभागैः शब्दो भवतीति । तथा च शिक्षाकारा आहुः - 'वायुरापद्यते शब्दताम् इति” । शाबरभा० १.१.७.२२ । ४ द्र० प्र०वा० ३.९२-१९६, ३. २६९-२८३। न प्राग् नित्यो भूत्वा पश्चादनित्यः स्यात् एकस्वभावत्वात् । स तर्हि भावः विनाशम नाविशन् कथं नष्टो नाम । नित्यस्वभाव- विनाशयोर परस्पर रूपत्वात् । यत एवं यदि अवश्यंभावी विनाश इष्यते तदा तेन विनाशस्वभावेन भवितव्यम् तथापि विनाशहेतुः व्यर्थ इत्युक्तम् तस्माद् विनाश प्रत्यनपेक्षो भावः तद्भावनियतः । ततो यः सन् स विनाशी । नश्वरताया मिवृत्तौ सत्त्वनिवृत्तिरिति भन्वयव्यतिरेकसिद्धिः । हेतुबि० ६३ । ५ ६० श्लो०वा०स्फोटवाद २४-२५ ।
Jain Education International
For Private & Personal Use Only
1
www.jainelibrary.org