________________
का०पू० १९९, वि० पृ०२१७ ]
न्यायमज्जरोग्रन्थिभङ्गः
यत्र शब्द उत्पन्नस्तत आगच्छन् शब्दानुकूलो वातोऽनुवातः शब्ददेशं पुनगच्छन् प्रतिवातः ।
सूक्ष्मैः शब्दपुद्गलैः' शब्दपरमाणुभिः ।
निबद्धा न च केनचिदिति । उदकादिना कृतमीलना इत्यर्थः ।
प्राप्त एवेति । महाभूतक्षोभजैः शब्दस्तत्रस्थ एव गृह्यते श्रोत्रेण श्रोत्रस्य हि तद्गुणादेव तादृशी शक्तिः कल्प्यते; यथा अयस्कान्तमणेर्दूरस्थस्याप्ययसः समाकर्षिका शक्तिदर्शनादेव कल्प्यते तद्वदस्येति भावः ।
८७
शब्दो यद्यप्यवर्णात्मेति । अयमाशयः । यथा गादयो वर्णा वर्णान्तरविलक्षणेन प्रातिस्तिकेन रूपेण श्रोत्रप्रत्यये प्रतिभासन्ते नैवं भेर्यादिषु शब्देषु शब्दत्वमाव्यतिरेकेणान्यस्य कस्यचिद् उपलब्धिरिति ।
या त्वनैकान्तिकत्वोक्तिरिति । पञ्चकृत्वो गोशब्द उच्चरित इत्यादि यत् प्रत्यभिज्ञानमुक्तं तन्न नित्यत्वसाधनायानुमानत्वेनापि त्वनित्यत्ववादिनाऽमुना प्रत्यभिज्ञारूपेण प्रत्यक्षेण विरुद्धतोद्भाव्य [74B]ते; अनैकान्तिकत्वादयश्चानुमानदोषा न प्रत्यक्षे उद्भावयितुं युज्यन्त इति भावः ।
Jain Education International
अथ मा भूत् प्रकृते दूषणम्, यथा पुनरनुमानं प्रत्यभिज्ञाबाधितत्वाच्छन्दानित्यत्वसाधकं प्रत्यक्षविरुद्धत्वेन न प्रमाणम्, तथा बुद्धिकर्मणोरप्यनुमानमनित्यत्वसाधकं प्रत्यभिज्ञाबाधितत्वादप्रमाणं कस्मान्नेष्यते । एवं च तयोरपि नित्यत्वं प्राप्नोतीत्याशङ्क्याह – सिद्धान्तान्तरचिन्तेति ।
१ सहो सो पोग्गलो चित्तो । प्रवचनसा० २.४० । शब्दस्यापीन्द्रियग्राह्यत्वाद् गुणत्वं न खल्वाशङ्कनीयम्, तस्य वैचित्र्यप्रपञ्चितवैश्वरूपस्याप्यनेकद्रव्यात्मकपुद्गलपर्यायत्वेनाभ्युपगम्यमानत्वात् । गुणत्वे वा न त वदमूर्तद्रव्यगुणः शब्दः गुणगुणिनोरविभक प्रदेशत्वेनैकवेदन वेद्यत्वादमूर्त द्रव्यस्यापि श्रवणेन्द्रियविषयत्वापत्तेः । पर्यायलक्षणेनोत्खातगुणलक्षणत्वान्मूर्त द्रव्यगुणोऽपि न भवति । पर्यायलक्षणं हि कादाचित्कत्वं गुणलक्षणं तु मित्यत्वम् ।... ततोऽस्तु शब्दः पुद्गलपर्याय एवेति । प्रचचनसा० तत्वदी० । २ " अप्राप्तान्यक्षिमनः श्रोत्राणि" अभि० को० १.४३ "चक्षुःश्रोत्रमनोऽप्राप्तविषयमुपात्तानुपात्तमहाहेतुः शब्द इति सिद्धान्तात् ” तत्वसं० पं० पृ० ६०३ । ३ महाभूतसंक्षोभजः शब्दः इत्यन्ये । न्या० भा० २.२.१२ । बौद्धराद्धान्तमाहमहाभूतसंक्षोभन इति । न्या०वा०ता०टी० २.२.१२ । ४ मुद्रितन्यायमञ्जर्या तु 'यद्वा यद्यपि वर्णात्मा' इति पाठः । ५ 'अयं भावः । नायं कृत्वसुच्प्रत्ययप्रयोगः स्वरूपेणैव शब्दाभेदे लिङ्गतयोच्यते येनानैकान्तिकत्वमुच्येत । किन्तु प्रायेण प्रत्यभिज्ञा साहचर्यं कृत्वसुच्प्रत्ययस्यास्तीति तादृशप्रत्यभिज्ञाज्ञापनार्थोऽयं कृत्वसुजुपन्यास इति । तन्त्रवा० १.१.६.२० । ६ स्यदेतत्- बुद्धिकर्मणी अपि ते प्रत्यभिज्ञायेते ते अपि नित्ये प्राप्नुतः । शा० भा० १.१.६.२० । ननु प्रत्यभिज्ञारूपलिङ्गेन यदि शब्दे नित्यत्वं साध्यते तदाऽनित्यत्वेनाभिमतयोर्बुद्धिकर्मणोरपि प्रत्यभिज्ञायमानत्वादनैकान्तिकत्वं हेतोरिति शङ्कते - स्यादेतदित्यादिना । तन्त्रवा० ।
For Private & Personal Use Only
www.jainelibrary.org