________________
भट्टश्रीचक्रधरप्रणीतः [ काल्पृ०१९४,वि०पृ.२१५ आकाशवदनाश्रितत्वात् केषाञ्चिन्मीमांसकानामाकाशवदनाश्रितः शब्द इति ।
यदि वा नैव गृह्णातीति' । मन्दोच्चारिते नैव वा गृह्यते, गृह्यते चेत् स[73B] कल ए[व] वर्णो गृह्यते न तु तस्य भागा गृह्यन्त इत्यर्थः ।
क एवमाह सहस्राक्ष इति । यस्य वि सहस्रमणां सः यद्येवं वक्तुं शक्नुयात् 'न दृष्टः' इति, न पुनरल्पदर्शी द्विदृगिति ।
योग्यतालक्षणो नियतविषयग्रहणरूपकार्यानुमेयः ।
तथा च भर्तमित्रेति । भर्तृमित्राख्यस्तन्त्रशुद्धयादिप्रकरणकृन्मीमांसकः 'कर्णशष्कुल्यां पवनजनितः संस्कारः श्रोत्रम्' इत्याहै, तदन्वयव्यतिरेकानुविधायित्वाच्छब्दग्रहणस्य ।
न दृष्टस्तेषु बुद्धिवदिति । यथा लिङ्गादिबुद्धिलिंङ्ग्यादिबुद्धिमारभमाणा दृश्यते तथा न शब्दः शब्दान्तरमित्यर्थः ।
मूर्तिमत्त्व क्रियायोगेति । वीच्या हि मूर्तिमत्त्वादिना वीच्यन्तरकारणजातस्य प्रेरणं क्रियते, तस्मिन् हि सति वीच्यन्तरनिष्पत्तेः । तथा चोक्तम्- "देशान्तरगतं कार्य नामूर्तस्यानभिध्नतः" [लो वा० शब्दनित्यता० ९२] इति ।
___ पारतन्त्र्याद् गुणत्वं रूपादिवत् सेत्स्यतीत्याशङ्कयाह-न शब्दः पारतव्येणेति ।
कापिलास्तु ब्रुवत इति। श्रोत्रस्याहङ्कारिकत्वाद् व्यापकत्वेन गमनासम्भवः, शब्दाभिघातेन तु या तस्य वृत्तिरुदेति सा शब्ददेशं गच्छतीति केषाञ्चित् साङ्ख्यानां[74A] मतम् । सा शब्देन विक्रियते स्वनिर्भासा संपाद्यते ।
गच्छन्त्याः प्रतिकूलो हीति । यस्यां दिश्युत्पन्नः शब्दस्तत्र श्रोत्रवृत्तिर्यान्ती तदिगागतेन वायुना प्रतिहन्येत ।
१ प्रलो० वा० स्फोटवाद १० । २ कुमारिलभट्टेन स्वानभिमत भर्तृ मित्र सिद्धान्तोऽयं प्रलो. वा० शब्दनित्यता० १३०-१३१ कारिकाद्वये निर्दिष्टः । तथाहि-इममेव च संस्कार शब्द. ग्रहणकारणम् ॥ केचित् तु पण्डितंमन्याः श्रोत्रमित्यभिमन्वते। ३ तत्र ये तावदिच्छन्ति प्राक्सयोगविभागतः ॥८८॥ शब्द उत्पद्यते तस्मादन्यस्तत्सदृशः पुनः । तदनन्तरदेशेऽभ्यस्तादृगन्यस्ततः परः ।।८९॥ वीचितरङ्गवृत्त्यैवमन्त्यः श्रोत्रेण गृह्यते । प्रलो० वा. शब्दनित्यता ४ तुलना-'गुणानां परतन्त्रत्वात्...'प्रलो० वा. आत्मवाद १०२ । गुणस्य द्रव्यपरतन्त्रत्वात् ..। हेतुबि० पृ० ५८ ५ जैनकापिलनिर्दिष्टं शब्दश्रोत्रादिसर्पणम् । “लोवा०शब्दनित्यता० १०६। 'मादिशब्देन श्रोत्रवृत्तेरूपासनम्' न्या. रत्ना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org