________________
का०पृ०१९४,वि०४०२१२] न्यायमञ्जरीग्रन्थिभङ्गः
भिन्नैर्वक्तृमुखेति । स्थानं ताल्वादि, प्रयत्न ईषत्स्पृष्टतादिः, करणं जिह्वा. मूलादि ।
शब्दत्वं व्यभिचारीति । सर्ववर्णेषु भावान्नियतार्थप्रतिपत्तेरभावात् । व्यजकभेदाधीनमिति । यथैकमपि मुख खड्गादिव्यञ्जकभेदान्नानेवोपलभ्यते ।
न भिन्नत्वमेषितव्यमिति । अन्यथा अभिन्नप्रत्ययानिर्वाहात् ।
व्यजनभेदप्रत्ययवदिति । यथा व्यञ्जनानां हलां भेदप्रत्यय उपाधिकृत इति । यत्पुनरष्टादशेति । हस्वदीर्घप्लुतभेदेन त्रयोऽकारास्ते च प्रत्येकं सानुनासिक निरनुनासिकत्वेन षट् सम्पद्यन्ते ते च षट् प्रत्येकमुदात्तानुदात्तस्वरित भेदेनाष्टादश सम्पद्यन्ते । अवर्णकुलमिति । व्यञ्जकभेदमनुवर्तमानानां वर्णानामेककण्ठादिस्थानाव. च्छेदेन समुदायवाची कुलशब्दो यथैकदेशाद्युपाधिको वृक्षेषु वनशब्दः ।
विकृतो दीर्घप्लुतरूपो वर्णः । संवृताद् हस्वाद् वर्णा[73A]त् ।
नित्यस्तु स्यादिति' । दर्शनस्योच्चारणस्य परार्थत्वादर्थप्रति पत्त्यर्थत्वात् , न चागृहीतसम्बन्धोऽथ प्रत्याययतीति नित्यः । नित्यस्तु स्यादिति सूत्रे तुशब्दः पूर्व पक्षव्यावृत्त्यर्थः ।
आरब्धकार्या अनारब्धकार्याश्चेति । आरब्धं कार्य पटलक्षणं यैस्त आरब्धकार्याः साक्षात् पटस्यारम्भकास्तन्तवः, अंश्वादयस्तु साक्षात् पटस्यानारम्भकत्वादनारब्धकार्याः, अंशुभिर्हि तन्तवः साक्षाद् आरभ्यन्त न पटः एवम् अश्वारम्भकैरप्यशवो न तन्तवो यावत् परमाणव इति ।
तिरोहिते भावादिति । तिरोहिते विनष्टे शब्दे प्रत्यभिज्ञानस्य भावात् , तस्य निर्विषयत्वे शब्दाविनाशितायां न प्रामाण्यमित्यर्थः।
अनेनोपोदघातेन प्रस्तावेन । स्तिमितसमीरणेति । स्तिमितो निश्चलो यः श्रोत्रवर्ती समीरणः ।
न हि तस्याधारद्वारक इति । यद्यपि शब्दो व्यापी तथापि तदाधाराणामव्यापितत्वात् तद्वारेण यः संस्कारः स कथं सकलदेशावस्थितशब्दसंस्कार इति शङ्कामनेन निराकरोति ।।
१ मी०सू० १.१.६.१८ । २ सा हि स्याच्छब्दसंस्कारादिन्द्रियस्योभयस्य वा। तत्र सर्वैः प्रतीयेत शब्दः संस्क्रियते यदि ।।५२॥ निर्भागस्य विभोर्न स्यादेकदेशे हि संस्किया। न चाऽस्याSsधारभेदेन संस्कार नियमो भवेत् ॥५३॥ यतः शब्दो निराधारो व्योमाऽऽत्मादिवदेव च । अधायाकाशमाधारस्तत्राऽनवयवेऽसति ॥५४॥ न स्यात् प्रदेशसंस्कारः कृत्स्नशब्दमतेरपि । न हि सामस्त्यरूपेण यावद्व्योम व्यवस्थितः ॥५५॥ शक्यते सकलो बोधुमेकदेशेन संस्कृतः । ग्लो०वा०शब्दनित्यता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org