________________
७८
भट्टश्रीचक्रधरप्रणीतः [का०पृ०१६०, वि०पृ०१७३ माण्यम् । एतदेव 'अमतिपत्तिमहतताकथनं वा' इत्यनेनोक्तम् , इतरेतराश्रयत्वे हि एकाप्रतिपत्तावितराप्रतिपत्तिरिति । प्रमाणतोऽर्थप्रतिपत्ताविति'। प्रमाणादर्थप्रतिपत्तिस्ततः प्रवृत्तेश्च सामर्थ्य फलाभिसम्बन्धस्ततोऽर्थवत् प्रमाणं ज्ञायते, अर्थसहकारित्वेन ज्ञायते प्रमाणतया[67A] ज्ञायत इत्यर्थः ।
प्रयोगक्रियाभ्यावृत्तिरिति । यथा 'द्विभुक्तः' इति भोजनस्य या प्रयोगक्रियाऽनुष्ठानसम्पादनं तस्याभ्यावृत्तिः पौनःपुन्यम् ।
परीक्षितैस्तु तत्परीक्षाकरणमिति । यैः प्रमाणैः परीक्षितैः परीक्षा क्रियते तेषामपि परीक्षितानां प्रमाणानां परीक्षाकारीणि प्रमाणानि अप्रमाणानि वा। अप्रमाणैः परीक्षाकरणमयुक्तम् , प्रमाणैश्चैतेषामपि प्रामाण्यपरोक्षणमन्यत इति अनवस्था ।
प्रामाण्यमस्य निरणायि निश्चितम् । सुशिक्षितास्त्विति प्राभाकरान् निर्दिशति ।
इयमस्मि कृत्या सीता संवृत्तेति । कृत्यारावणाख्यनाटकोक्तं वस्तूपहासपरत्वेन निर्दिशति । तत्र हि जातवेदसा रावणवधाय कृत्योत्थापिता सा रावणागमनसमये स्वरूपतिरोधानेन सीतारूपा संवृत्ता 'इयमस्मि कृत्या सीता संवृत्ता' इत्यभिधाय ।
__ भवत्वित्यादि । अनाद्यविद्यायाता असत्यरूपप्रदर्शनशक्तिर्विज्ञानस्य वासना यत्सम्बन्धादात्मानं प्रदर्शयद् विज्ञानमसन्तमपि बाह्याकारं दर्शयतीति बौद्धाः ।
यदन्त यरूपं हीत्यस्योत्तरम्-'सोऽर्थो विज्ञानरूपत्वात् तत्प्रत्ययतयापि वा' इति । तदेव विज्ञानं प्रत्ययः [67B] कारण यस्यासौ तत्प्रत्ययः, तस्य भावः तत्यत्ययता, तया । बहिबुद्धेरसम्मवादिति । बहिष्प्रतिभासस्तावदवश्याभ्युपेयः, बहिश्च बुद्धिर्नास्तीति बलादसख्यातिवादापत्तिः ।
तस्मात् प्रमुषितामेनां स्मृतिमिच्छन्ति तार्किकाः । अभ्यस्ते विषयेऽविनाभावस्मृतिवदिति योजना ।
सर्वेण सर्व सर्वात्मना ।
सामानाधिकरण्येन केचिदिति । “यदा वैयधिकरण्यानवभासस्तदा सामानाधिकरण्यभ्रमः, तन्निबन्धनः परामर्शोऽपि 'तथा चेदं रजतजातीयम्' इति यदि
१ न्या० भा० पृ० १ । २ सामर्थ्य पुनरस्याः फलेनाभिसम्बन्धः । न्या०भा० पृ०२ । ३अन्य यदि प्रमाणः प्रमाणसिद्धिर्भवत्यनवस्था । विग्रहव्या० ३२। ४ आलम्बनप० ६। ५ प्राभाकराः । ननु शुक्तिकायां रजतज्ञानं 'स्मरामि' इति प्रमोषात् स्मृतिज्ञानमुवतं, युक्तं रजतादिषु । बृहती० पृ०६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org