________________
का०पू०१७३, वि०पृ०१८८] न्यायमञ्जरीग्रन्थिभङ्गः
७९ भवेत्तथाऽपि नास्मत्पक्षक्षतिः: प्रवृत्त्यादिव्यवहारवत् सोऽपि भवतु यद्यनुभूयते" इति केचित् प्राभाकराः । रजतज्ञानानन्तरं तदुपकारितास्मरणम् , ततः परामर्शः ।
एतेन पीतशङ्खादिभ्रान्तय इति । कामलोपहतं चक्षुः स्वगतं पीतत्वं गृह्णच्छङ्खगतं शुक्लत्वं ग्रहीतुं न शक्नोति स्वगतं च पीतत्वं स्वगतत्वेन न गृह्णाति ।
___अनुभूतताग्रहणं हीति । वस्तुगताऽनुभूतता यदा ज्ञानेन गृह्यते परामृश्यते 'ज्ञातः स' इत्यादिना रूपेण तदा स्मरणम् ; अनुभूयमानतया तु ग्रहणम् 'अयम्' इत्यादिना रूपेण ।।
विरुद्ध विशेषाः शुक्तिरूपापेक्षया ये विरुद्धा रजतत्वादयः ।
एकीकृ[68A]त्य प्रवर्तते इत्यस्यापि 'तयोर्भेदमगृहीत्वा प्रवर्तते' इत्ये वरूप एवार्थों यतः' ।
परानुभूतेन स्मरणमिति । भवताऽपि स्वप्ने स्वशिरश्छेदानुभवः स्मृतिरूप एवाभ्युपगतस्तत्र च स्वानुभवासम्भवात् परानुभूतस्यैव स्मरणमवश्याभ्युपेयम् ।
मनोदोषनिबन्धनेषु मानसनिद्रादिदोषजेषु स्वप्नादिज्ञानेषु ।
तिमिरं तितउविवरवदिति । तितउ* परिपवनम् । संयजत्रैरङ्गानि इति । “सं ते वायुर्वातेन गच्छतां सं यजत्रैरङ्गानि समाशिषा यज्ञपतिः” मै० सं० १. २. १५] । वायुस्ते तव सम्बन्धी वातेन सङ्गच्छतां सम्बन्ध्यताम्, अङ्गानि यजत्रैर्देवैः सङ्गच्छताम् , यज्ञपतिर्यजमान आसि(शि)षा सङ्गच्छतामिति पशुविशसनमन्त्रस्यार्थः । अत्र प्रकृतस्य 'गच्छताम्' इत्यस्यैकवचनत्वात् 'यजत्रैरङ्गानि' इत्यत्र 'गच्छन्ताम्' इति लौकिको वाक्यशेषः कार्यः संशब्दस्तु श्रूयमाणः स्थित एव ।
न वा मीमांसका इति । विपरीतख्यातिरत्याज्यत्वाद् भार्यास्थानीया ।
नैसर्गिकशक्त्यात्मकेति । वाच्यवाचकशक्त्योः परस्परनियतत्वं शक्त्यात्मकः सम्बन्धः ।
१ ग्रहणस्मरणे चेमे विवेकाऽनवभासिनी ॥३३॥ सम्यग् रजतबोधात् तु भिन्ने यद्यपि तत्त्वतः। तथापि भिन्ने नाऽभातः भेदाऽग्रहसमत्वतः ॥३४॥ सम्यग् रजतबोधश्च समकाथंगोचरः । ततो भिन्ने अबुद्धवा तु स्मरणग्रहणे इमे ॥३५॥ समानेनैव रूपेण केवलं मन्यते जनः । व्यवहारोऽपि तत्तुल्यः ततः एव प्रवर्तते ॥३७॥ समत्वेन च संवित्तः भेदस्याऽग्रहणेन च । प्रकरणपं०। २ तितउ परिपवनं भवति ततवद्वा तुन्नवद्वा तिलमात्रतुन्नमिति वा । निरुक्त ४.९ । सक्तवः परिपूयन्ते येन द्रव्येण तत् परिपवनमुच्यते । ततेन चर्मणा मदं 'तितउ'। तुन्नैर्वा छिद्रः तद्वत् तितउ । तिलमात्राणि वा तुन्नानि तस्मिन्निति तितउ । दुर्गव्याख्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org