________________
का०पृ०१६०, वि०पृ०१७३] न्यायमञ्जरीग्रन्थिभङ्गः
७७ अस्ति कूपे जलमिति । एतद् ज्ञानमुभयकोटिस्पृक्त्वेनानुत्पद्यमानमपि संवादविसंवादाभावात् संशय इति कल्प्यते । संवादे सम्यग् ज्ञानं स्यात् विसंवादे तु मिथ्या, संशयविपर्ययसम्यग्ज्ञानातिरिक्तस्य चतुर्थस्य ज्ञानात्मनोऽनभ्युपगमात्तु संशय एव ।
यदि तावत् स्पष्टते[ति] । सत्यरजतवदर्थान्तरविवेकेन यत्रार्थः प्रतिभासते से स्पष्टः । समनन्तरमेव विरुद्धज्ञानान्तरानपसार्यमाणस्वभावो निष्कम्पः । अनाश्वासस्थानं यो न भवति संभाव्यमानार्थत्वात् [66A]स निर्विचिकित्सः।
अभिशापपरम्परा 'संशयात्मा विनश्यति' [भगवद्गीता ४.४०] इत्यादिका।
पूर्वप्रत्ययापेक्षेति । व्यभिचारिता हि ज्ञानस्य दोषहेतुका, ते च सन्निकर्षविप्रकर्षापेक्षाः कारणं मिथ्याधियः । तत्र यदा विप्रकर्षाद् दोषेभ्यः मिथ्याधीस्तदाऽसौ सन्निकर्षान्निवर्तते, मरीचित्रिव दूराज्जाता जलधीः सन्निकर्षात्तु मरीचिधीरेव; यत्र पुनः सन्निकर्षविप्रकर्षयोरपि तथात्वं तत्र सम्यक्त्वमेव । इतीयं सा पूर्वप्रत्ययापेक्षोत्तरा संवित् । संशयो हि साधर्म्यनिबन्धनो ज्ञाने विशेषदर्शनान्निवर्तते स्थाणाविव करपादादिविशेषदर्शनादित्यभिप्रायेणोक्तम्-विशेषदर्शनं वेति । नातीव हृदयङ्गममिति । उत्तरस्या अपि संविदः कदाचिदसत्यर्थे समुत्पादाशङ्कासम्भवाद् विशेषदर्शनस्य चासत्यपि विशेष इति । तथा च विशेषदर्शनेऽपि संशीतिः कचित् कराद्यवयवावलोक[66B] रूपे, तथाहि -'तस्याः पाणिरयं न कोमलदलश्चलत्यत्राङ्गुलिपल्लवः' इत्यादौ संशय्य पश्चान्निश्चिनुते ।
विषयस्य चलत्वेति । चलत्वं मरीचिकादौ, सादृश्यं शुक्तिकादौ ।
अतः पूर्वमव्यभिचारित्वदर्शने सिद्ध इति । किञ्चित् फलज्ञानमव्यभिचारि दृष्टम् किञ्चिच्च व्यभिचारि यदा तदा तृतीये ज्ञाने संशयः । तत्र यदव्यभिचारि दृष्टं तस्य यथाऽव्यभिचारित्वग्रहस्तथाऽस्यापि इति भावः ।
यत्त तद्विशेषज्ञानमपीति । अर्थक्रियायां यद्विशेषज्ञानांशे चाचमनादिकायकलापज्ञानं प्रागुदाहृतं तदपि ज्ञानत्वादन्यतो निश्चितप्रामाण्यमिति तन्निश्चायकस्याप्यन्यतः प्रामाण्यनिश्चय इत्यनवस्था' । अर्थक्रियाज्ञानप्रामाण्याद्वा तत्प्रामाण्यनिश्चये इतरेतराश्रयत्वम् , तत्प्रामाण्यादर्थक्रियाज्ञान[प्रामाण्यमर्थक्रियाज्ञान प्रामाण्याच्च तत्प्रा
१ यदि हि सर्वमेव ज्ञानं स्वविषयतथात्वावधारणे स्वयमसमर्थ विज्ञानान्तरमपेक्षेत ततः कारणगुणसंवादाऽर्थक्रियाज्ञानान्यपि स्वविषयभूतगुणाद्यवधारणेऽपरमपेक्षेरन् , अपरमपि तथेति न कश्चिदर्थो जन्मसहस्रेणाप्यध्यवसीयेतेति प्रामाण्यमेवोत्सीदेत् । शादी०पू०७८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org