________________
भट्टश्रीचक्रधरप्रणीतः [का पृ०१५२, वि०पृ०१६६ गोदोहनेन पशुकामस्य प्रणयेदिति । यः पशुकामो यजमानस्तदर्थ गावो दुह्यन्ते यस्मिन् पात्रे तेनाध्वर्युरपां प्रणयनं कुर्यात् ; अत्र गोदोहनमिष्टपशुसम्पादकत्वेन पुरुषेणार्थ्यमानत्वात् पुरुषार्थम् , क्रतोस्तु चमसकृतेनैव प्रणयनेनोपकारसिद्धेः क्रतुनाऽनपेक्षमाणत्वान्न क्रत्वर्थम् । तदेवमनयोः क्रत्वर्थपुरुषार्थत्वेन भिन्नविषयत्वेऽपि गोदोहनं प्रणयनमकुर्वन्न फ[65AJलाय प्रभवति, क्रियामनाश्रित्य कारणस्य शुद्धस्य फलं जनयितुमसामर्थ्यात् ; अतस्तेन प्रणयनमवश्यं कार्यम् ; तेन चेत् प्रणयनं क्रियते कृतत्वात् प्रणयनस्य तेनैव संयवनादिकार्यसिद्धेराच्चमसो निवर्तते । नन्वत्रास्त्वेककार्यस्वान्निवृत्तिः, दार्टान्तिके तु द्विचन्द्रज्ञानदोषज्ञानादौ कीदृश्येककार्यता ? उच्यते । एकस्मिन्नर्थे तथात्वातथात्वप्रदर्शनेन व्यापार एककार्यत्वम् । दोषज्ञानम् 'दुष्टं मे चक्षुः' इति ज्ञानम् दोषाणामयथार्थज्ञानजननद्वारेण द्विचन्द्रज्ञानप्रतिभासिनोऽर्थस्यातथात्वं ज्ञापयति, द्विचन्द्रज्ञानम् तु तथात्वमेव स्वप्रतिभास्यस्यार्थस्यावेदयते; न वै तत् तथात्वमतथात्वं चैकस्य वस्तुनः सम्भवतीत्यर्थाद् बाध इत्यर्थः ।
त्रिचतुरज्ञानजन्मनो नाधिकेति' । जन्मन इति पञ्चमी।
वक्त्रधीन इति स्थितमित्यस्यापरमर्धम्-'तदभावः कचित्तावद् गुणवद्वक्तृकत्वतः' इति [श्लो०वा०चोदना० ६२] ।
वक्तभावाल्लघीयसी" अयत्नसिद्धा।
तत् प्रमाणं बादरायणस्येति । तत् शाब्दं बादरायणस्याचार्यस्य मतेऽनपेक्षत्वात् प्रमाणम् , अन्यानपेक्षं प्रमाणं स्वत एव प्रमाणमित्यर्थः ।
एवं मीमांसकदृष्ट्या स्वतः प्रामाण्यं प्रति[65B]पाद्य वेदस्य तदप्रामाण्ये धर्मकीर्तेः। श्लोकद्वयम्
गिरां मिथ्यात्वहेतुना दोषाणां पुरुषाश्रयात् । ___ अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते ॥ [प्र०वा० ३.२२४] इत्येकं मीमांसकमतानुवादतया व्यवस्थितमपरं च तत्प्रतिषेधायगिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् ।
अपौरुषेय मिथ्यार्थं किन्नेत्यन्ये प्रचक्षते ॥ [प्र०वा० ३.२२५] इति व्यत्ययेनेति-तदिदानी यथा पठितुं युज्यते तथा पठितुमाह-गिरां मिथ्यात्वहेतूनामित्यादिना।
१ श्लोव्वा०चोदना. ६० । २ प्रलो०वाञ्चोदना० ६८। . ३ मी० सू० १.१.५ ।
vvwww
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org