________________
का०पृ० १५२, वि०पृ०१६६] न्यायमञ्जरीग्रन्थिभङ्गः त्वेन वा । नामधेयादिपदानाम् उद्भिदादीनां किं गुणार्थत्वेन समन्वय उत कर्मनामधेयतयेति । जीविकोपायबुद्धयेति । यथोक्तम्
अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्म मुण्डनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ इति ॥'
विकल्पयोनयः शब्दा इति । 'अमुमथै प्रतिपादयामि' इत्येवमात्मकविकल्पोपारूढार्थप्रतिपादनाय शब्दप्रयोगात् शब्दाच्च 'अयमर्थोऽवगतः' इत्येवंरूपविकल्पोदयात् ।
निषेधवाक्यैकवाक्यतैव न स्यादिति । अननुभूतार्थं न प्रयोक्तव्यं यथा किमिति शब्दपरत्वे भवत्येकवाक्यता, अर्थपरत्वे तु यथा किमित्यपेक्षायामगुल्यग्रहस्तियूथशतयोराधाराधेयसम्बन्धरूपोऽर्थो न सङ्गच्छते ।।
तदुक्तमिति । प्राभाकरं वचो ज्ञापकत्वेनाह-'प्रमाणान्तरदर्शनम्' इति । वक्ता यद्वशेन परस्मै अर्थ प्रतिपादयति तदस्य प्रमाणान्तरदर्शनशब्देन विवक्षितम् , तच्च कदाचिदज्ञानमोहाद्यपि भवति । तत्तथ्यमपि भवतीति । पौरुषेयं वच इति प्रकृतम् ।
पीठबन्धः भूमिकारचनम् ।
अप्रामाण्यमवस्तुत्वादिति । अप्रामाण्यं ध[64B]मि, कारणदोषतो न स्यादिति साध्यम् , अवस्तुत्वादिति हेतुः । 'वस्तुत्वात्तु गुणैस्तेषां प्रामाण्यमुपजन्यते' इस्युत्तरमर्धम् [श्लो०वा०चोदना० ३९] ।
[चक्रकेति] त्रियन्त्र्यादीनां परस्परसापेक्षाणां चक्रवद् भ्रमतां चक्रव्य[प]देशः।
__ अर्थान्यथात्वेति । अर्थान्यथात्वज्ञानात् 'शुक्तिकेय न रजतम्' इत्यादौ, हेतू. स्थदोषज्ञानात् कारणदोषज्ञानाद् द्विचन्द्रज्ञानादौ ।
चमसेनापः प्रणयन्तीति । चमसेन यज्ञपात्रविशेषेण अपः प्रणयन्ति विशिप्टेन मन्त्रेण प्राङ् नयन्ति, गार्हपत्यदेशादाहवनीयदेशं नयन्ति । पिष्टसंयवनाद्यर्थ ताभिस्संयुते पिण्डीकृते पिष्टे पुरोडाशनिर्वृत्तिद्वारेणाग्नेयोऽष्टाकपालो भवतीति प्रधानयागनिवृत्तेः क्रतूपकारकत्वात् क्रत्वर्थश्चमसः ।
१ बृहस्पतेः धृतं सर्वदर्शनसमहे । २ (संभवतः दिग्नागस्य) प्रसिद्धबौद्धकारिकेयमनेकान्थेषूद्धृता यथा स्याद्वादरत्नाकरे पृ० ७०१, सिद्धिविनिश्चयटीकायां पृ. ४४९, ६२०, नयचक्रटीकायां प्र. २४३। 'एतदत्राकूतम्-विकल्पयोगयो हि शब्दाः . ...' न्यावा० ता०टी०पृ०४.३। ३ बृहती १.१.२ । ४ शा०भा० १.२.२ । ५ तल्लक्षणम्"स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनः प्रसङ्गश्चक्रकः" वाचस्पत्यम पृ० २८३६ । ६ श्लोक वा०चोदना० ५३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org