________________
७४
भट्टश्रीचक्रधरप्रणीतः [का पृ० १४४, वि०पृ० १५६ इत्यपि । नियोगभावनावादिमते नियोगस्य' भावनाया" वा संसृष्टाया वाक्यात् प्रती. यमानत्वात् तयोरेवैकतरस्य वाक्यार्थत्वम् , न संसर्गस्य भेदस्य वा तत्प्रतीत्युत्तरकालं प्रतीयमानस्य ।
व्यतिषक्तार्थमिति] तदुक्तम्-"व्यतिषक्ततोऽवगतेय॑तिषङ्गस्य" इति [बृहती. १. १. ७]
परस्परविरुद्धाश्चेति । नाथवादाधागमा अशुचिलक्षणादिप्रतिपादका ईश्वरप्रणीततयाऽभिमताः केषाश्चित् , तदपेक्षयेदमुक्तम् ।
व्याघातः यथा-'उदिते जुहोत्यनुदिते जुहोति' इत्यादौ । पुनरुक्तता यथा'त्रिः प्रथमामन्वाह त्रिरुत्तमाम्' इति । सकृदुच्चारणेनैव कर्मस्वरूपप्रकाशसिद्धेः पुनरुच्चारणं पुनरुक्तम् । फलस्यानुपलम्भ:-कृतायामपि पुत्रकामेष्टावनन्तरं पुत्रस्यानुपलम्भात् । विषर्ययः अन्त्येष्ट्याम्-तत्र हि पात्रचयं विधायाह ‘स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्ग लोकं याति' इति, स्वर्गफलविपरीतस्य भस्मीभावस्योपलम्भात् । यजमानशरीरावयवेषु यज्ञपात्राणां विशिष्टेन रूपेण विरचनं पात्रचयः। अर्थवादानाम विरुद्धार्थाभिधायिनाम् । 'धूम एवाग्नेर्दिवा ददृशे नार्चिः, अचिरेवाग्नेर्नक्तं ददृशे न [64A] धूमः' इत्यादीनाम् । मन्त्राणाम् च कीदृशोऽन्वयो विधायकत्वेनाभिधायक
१ कोऽयं नियोगो नाम ? निशब्दो निःशेषार्थः योगार्थो युक्तिः निरवशेषो योगः नियोगः । निरवशेषत्वात भयोगस्य मनागप्यभावात् , अवश्यकर्तव्यता हि नियोगः । नियोगप्रामाणिका हि नियोगप्रतिपत्तिमात्रतः प्रवर्तन्ते । प्र०वा०भा० पृ०१४ । नियुक्तोऽहमनेन वाक्येनेति निरवशेषो योगः नियोगः, तत्र मनागप्ययोगाशङ्कायाः संभवाभावात् । तत्त्वार्थश्लो पृ०२६१ । अष्टसहस्री पृ०५ । २ तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः । प्रयोजकक्रियामाहुः भावनां भावनाविदः ॥ तन्त्रवा० २.१.१. । भाव्यभावनसमर्थो हि व्यापारो भावना । भावनावि०
६। भावना नाम भवितुर्भवनानुकूलो भावयितुर्व्यापार विशेषः । अर्थसं० पृ०७ ३ द्र. कल्याणी मल्लिककृत 'नाथसम्प्रदायेर इतिहास दर्शन ओ साधनप्रणाली' ।। तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः । न्यान्सू० २.१.५७ । विहितव्याघातदोषाच्च हवने 'उदिते होतव्यम् अनुदिते होतव्यम् समयाध्युषिते होतव्यम्' इति विधाय विहितं व्याहन्ति - 'श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोति, शबलोऽस्याहुतिमभ्यवहरति योऽनुदिते जुहोति, श्यावशबलावस्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति' । न्या.भा. २.१.५७ । ५ पुनरुकतादोषाच्च । अभ्यासे देश्यमाने 'त्रिः प्रथमामन्वाह त्रिरुत्तमाम्' इति पुनरुक्कदोषो भवति । पुनरुक्तं च प्रमत्तवाक्यम् । न्या०भा० २.१.५७ । ६ अनृतदोषात् , पुत्रकामेष्टौ । 'पुत्रकामः पण्या यजेत' इति नेष्टौ संस्थितायां पुत्रजन्म दृश्यते। न्या०भा०२.१.५७ । ७ शाबरभाष्ये (१.१.५) उद्धृतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org