________________
का०पृ०१४४, वि०पृ०१५६] न्यायमञ्जरीग्रन्थिमनः
७३ तत्रापि प्रतीतिरेवेति । यद्यपि पूर्वमर्थमन्येन ततः प्रतिपन्नं ज्ञात्वा स्वयं न प्रतिपद्यतेऽपि तु परप्रतीति विनैव स्वयमेव प्रतिपद्यते तथापि परेण वक्त्रा 'अरमा च्छब्दादयमों भवता प्रतिपत्तव्यः' इति वदता 'अस्यार्थस्यास्माच्छब्दात् प्रतीतिः' 'अयं शब्द एतदर्थवाचकः' इति तदर्थप्रतीतिरेव तस्य शब्दस्य वाचकत्वे कारणत्वेन निर्दिष्टा । अतस्तत्रापि तादृशाद् वाक्याद् 'यत एतस्यास्माच्छब्दा[63A]देतदर्थप्रतीतिरस्ति एतदर्थवाचकोऽयमतोऽहमप्यस्मादमुमर्थ प्रतिपद्ये' इति भवत्यवगतिपूर्विकैवावगतिः ।
यत्तु पूर्ववर्णक्रमेति । यथाह भट्टः
पूर्वसंस्कारयुक्तान्त्यवर्णसंस्कारकल्पना । विवक्षादि च धूमादी नास्तीत्येतेन भिन्नता ।। येरुक्ता तत्र वैधर्म्यविकल्पसमजातिता । ध्मानित्यविषाण्यादि]विशेषान्न हि भिन्नता ॥ त्रैलक्षण्यपरित्यागो यावन्न प्रतिपाद्यते । तावद्विशेषमात्रेण वदतो जातिता भवेत् ॥ [श्लो०वा ०शब्दप०१६-१८]
न हि यद्धमादग्नेरनुमानं यच्च कदाचिदनित्यत्वात् कृतकत्वस्य विषाणित्वाचतुष्पा[द]त्वस्य तदनुमानतया परस्परं भिद्यते ।
जन्माधिकोपयोगीति' । अनुमायामनुमाने यस्त्रिलक्षणो हेतुः स न जन्माघिकोपयोगी, ज्ञानजन्मनो ज्ञानोत्पादादधिके कार्य न व्याप्रियते । ज्ञानजन्मन्येव तस्य व्यापार इत्यर्थः । त्रिलक्षणशब्देनात्र हेतुरुक्तः ।
अर्थोपग्रहवर्जिता नियतार्थविषयत्वहीना । नियमात् अवश्यंभावात् , अवश्य हि जीवन् विवक्षति ।
नियोगभावनाभेदेति । भेदः संसगों वा वाक्यार्थ इति वैयाकरणाः केचित् । [63B] आदिग्रहणाद् भेदसंसर्गौ वाक्यार्थ इत्यपि संगृहीतम् , तथा क्रिया वाक्यार्थ
१ प्रलो०वा०वाक्य० २४६ । २ अथवा समर्थाधिकारोऽयं वृत्तौ क्रियते । सामर्थ्य नाम भेदः, संसर्गों वा । अपर आह भेदसंसर्गौ वा सामर्थ्य मिति । कः पुनर्भेदः संसर्गो वा ? इह राज्ञ इत्युक्ते सर्व स्वं प्रसंक्तम् , पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः। इहेदानी 'राजपुरुषमानय' इत्युक्ते राजा पुरुषं निवर्तयत्यन्येभ्यः स्वामिभ्यः, पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः । एवमेतस्मिन्नुभपतो व्यवच्छिन्ने यदि स्वार्थ जहाति कामं जहातु न जातुचित् पुरुषमात्रस्यानयनं भविष्यति । महाभाष्य २.१.१. (पृ०३३०)। तत्र भेदः संसर्गाविनाभावित्वादनुमीयमानसंसर्ग: सामर्थ्यम् , संसर्गो वा भेदाविनाभाव्यनुमेयभेदः। उभौ वा यौगपद्यनाश्रीयमाणो सामर्थ्यमित्यर्थः ।...तत्र मैदपक्षे राजा पुरुषं स्वाम्यन्तरेभ्यो निवर्त्य स्वार्थ जहाति। पुरुषस्तु अजहदपि स्वार्थ स्वान्तरेभ्यो राजानं निवर्तयति । ..एवं संसर्गेऽपि योज्यम् । महाभा०प्र० २.१.१.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org